पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


ॐ काञ्चिदूचुरिति प्रेम्णा राधिकाय हरिं मुने ॥ क्षणं छंदावनं गच्छ मानापनयनावधि ॥ ६७ ॥ काश्चिदित्यूचुरीशं च परिहासकें परं वचः॥ मानापनयनं भक्त्या मानिन्याः कुरु कामुक ॥ ६८ ॥ काश्चनोचुरितीशं तं याहि जायतरं तत्र । लोलुपस्यञ्च कथं न।थ करिष्यामो यथोचितम् ॥ ६९ ॥ काश्चनोचुरिति हरिं सस्मितं पुरतः स्थितम् । गत्वा समीपमुत्थाय मानापनयनं|ङ्क |कुरु ॥ ७० । काश्चनोचुरिति प्राणनाथं गोप्यो दुरक्षरम् । कः क्षमः सांप्रतं द्रष्टुं राधिकामुखपंकजम् ॥ ७१ ॥ काश्चनो चुरिति विमुं व्रज स्थानांतरं हरे ॥ कोपापनयने काले पुनरागमनं तव ॥ ७२ ॥ काश्चनोचुरितीदं तं प्रगल्भाः प्रमदोत्तमाः ॥lहैं वयं त्वां दारयिष्यामो न चेद्याहि गृहांतरम्॥ ७३ ॥ काश्चिन्निवारयामासुर्माधवं प्रमदोत्तमाः । स्मितवक्त्रं च सर्वेशं स्वस्थम | क्रोधमीश्वरम् ॥ ७४ ॥ गोपीभिर्वीर्यमाणे च जगत्कारणकारणे । सद्यचुकोप श्रीदामा हरौ गेहांतरं गते ॥ ७५ ॥ कोपादुकु वाच श्रीदामा राधिकां परमेश्वरीम् । रक्तपद्मक्षणां रुष्टां रक्तपंकजलोचनाम् ॥ ७६ ॥ ॥ श्रीदामोवाच ॥ ॥ कथं वदसि | मातस्त्वं कटुवाक्यं मदीश्वरम् ॥ विचारणां विना देवि करोपि भसनं वृथा ॥ ७७ ॥ ब्रह्मानंतेशदेवेशं जगत्कारणकारणम् ॥|छ। |वाणीपद्मालयामायाप्रकृतीशं च निर्गुणम् ॥ ७८ ॥ स्वात्मारामं पूर्णकामं करोपि त्वं विडंबनम् । देवीनां प्रवरा त्रं च निबोध|| यस्य सेवया ॥ ७९ ॥ यस्य पादार्चनेनैव सर्वेषामीश्वरी परा । तन्न जानासि कल्याणि किमहे वक्तुमीश्वरः ॥ ८० ॥|ङ्क शुभंगलीलया कृष्णः स्रष्टुं शक्तश्च त्वद्विधाः । कोटिशः कोटिशो देयस्तं न जानासि निर्गुणम् ॥ ८१ ॥ वैकुंठेश्रीहरेरस्य = |चरणांबुजमार्जनम् ॥ करोति केशैः शश्वच्छीः सेवनं भक्तिपूर्वकम् ॥ ८२ ॥ सरस्वती च स्तवनैः कर्णपीयूषसुंदरैः ॥ सततं | स्तौति यं भक्त्या न जानासि तमीश्वरम् ॥ ८३ ॥ भीता च प्रकृतिर्माया सर्वेषां बीजरूपिणी ।। सततं स्तौति ये भक्त्या तं न कुछ जानासि मानिनि ॥ ८४ ॥ स्तृवंति सततं वेदा महिम्नः पोडशीं कलाम् ॥ कदापि न विजानंति तं न जानासि भामिनि ॥८५॥|| १ कामिन्याः-३० पा० । २ रक्तीकजलोचनः-३०प०३ धर्मज्ञ-इते पा० ४ जवेति पा० ।