द्वितीयाध्याये तृतीयः पादः । ७९ तरेषामनुपलब्धिमिच्छता ज्ञानसामग्रीमध्येऽन्यतरस्यात्मन इन्द्रियस्य वा नियमः शक्तिप्रतिबन्धोऽङ्गीकर्तव्यः । स न सम्भवति निर्धर्मे आत्मनि शक्तेरभावात् । नापीन्द्रियस्य शक्तिः आन्तरत्वेन तद्धर्मत्वायोगात् । तस्माद्व्यासङ्गस्थल इच्छेव नियामिका । तस्याश्च मनोधर्मत्वेन तदन्यथानुपपत्त्या ‘कामः सङ्कल्प’ (बृ. १-५-३) इत्यादिश्रुत्या च सिद्धमन्तःकरणं, तत्प्रयुक्तश्चात्मन्यणुत्वादिसंसार इति । तस्मादौ - पाधिकाणुत्वश्रुत्या न वास्तव सर्वगतत्वश्रुतेर्विरोध इति सिद्धम् ॥ ३२ ॥
- १४ कर्त्रधिकरणम् *
इत्थमणुत्वं पराणुद्य सर्वगतृत्वं स्वयञ्ज्योतिष्यादिवद् बहिष्ठं प्रतिष्ठापितम् । अधुना ततो बहिष्ठं कर्तृत्वं बुद्धिकर्तृत्वव्यासेधेन साधयतीत्यान्तर बहिर्भावसङ्गत्येद- माह- - कर्त्ता शास्त्रार्थवत्त्वात् ॥ ३३ ॥ अत्र तद्गुणसारत्वस्यैव प्रपञ्चनादत्र मिथः श्रुत्योर्विरोधपरिहारौ न विचा- रयितव्यौ, किन्त्वात्मनः कर्तृत्वाकर्तृत्वे । तत्र किं बुद्धिः कर्त्री उत जीवः क- र्तेति सन्देहे परिणामित्वाद् बुद्धिरिति पूर्वः पक्षः । सिद्धान्तस्तु आत्मैव कर्ता न बुद्धिः, कुतः, कर्त्तुरपेक्षितोपायबोधक विधिशास्त्रस्यार्थवत्त्वात् । यदि बुद्धिः कर्त्री फलभोक्ता चात्मेत्युच्येत तर्हि तादृशविधिशास्त्रमनर्थकमापद्येत । अतो न केवल- बुद्धेः कर्तृत्वम्, अपि त्वात्मन इति ॥ ३३ ॥ किञ्च- । विहारोपदेशात् ॥ ३४ ॥ ‘स्वे शरीरे यथाकामं परिवर्तते' (बृ. २-१-१८) इति जीवप्रकरणे स्व- भावस्थायां विहारस्य सञ्चरणस्योपदेशादकर्तुः सञ्चरणायोगादात्मनः कर्तृत्वमि- त्यर्थः ॥ ३४ ॥ किञ्च -- उपादानात् ॥ ३५ ॥ 'प्राणानां विज्ञानेन विज्ञानमादाय' (बृ. २-१-१७) इत्यात्मनो ग्रहणश- क्युपादानश्रवणादकर्तुरुपादानायोगादात्मनः कर्तृत्वमित्यर्थः ॥ ३५ ॥ अपि च- व्यपदेशाच्च क्रियायां न चेन्निर्देशविर्पययः ॥ ३६ ॥