ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां ' विज्ञानं यज्ञं तनुते' (तै. २-९) इत्यादौ लौकिकवैदिकक्रियायां वि. ज्ञानशब्दवाच्यस्यात्मनः कर्तृत्वव्यपदेशाद् यदि विज्ञानशब्दो बुद्धिपरो जीवपरोन चेत्, तर्हि निर्देशविपर्ययः स्याद् बुद्धेः करणत्वेन विज्ञानमिति कर्तृत्व निर्देशस्य विज्ञानेनेति करणत्वविपर्ययः स्यादित्यर्थः ।। ३६ ॥ ननु स्वतन्त्रस्यात्मनः कर्तृत्वेऽनिष्टं न कुर्याद् इष्टमेव कुर्यादित्यत आह - उपलब्धिवदनियमः ॥ ३७ ॥ ८० यद्वदुपलब्धौ स्वतन्त्रोऽप्यात्मेष्टमनिष्टं चोपलभते, तद्वदिष्टमनिष्टं च स- म्पादयतीत्यनियम इत्यर्थः ॥ ३७ ॥ इतश्चात्मन एव कर्तृत्वं न बुद्धेरित्याह- शक्तिविपर्ययात् ॥ ३८ ॥ बुद्धेः कर्तृत्वे करणशक्तिविपर्ययात्, करणशक्तिहींयेतेति यावत् ॥ ३८ ॥ ज्ञानसाधनविध्यन्यथानुपपत्त्याप्यात्मनः कर्तृत्वं स्वीकार्यमित्याह--- समाध्यभावाच ॥ ३९ ॥ आत्मनोऽकर्तृत्वे ‘आत्मा वा अरे द्रष्टव्य' (बृ. २-४-५) इत्यादौ विहितस्य ब्रह्मसाक्षात्कारसाधनस्य समाधेरभावप्रसङ्गादात्मनः कर्तृत्वसिद्धिः ॥ ३९ ॥
- १५ तक्षाधिकरणम् *
इत्थं सर्वगतत्वाद् बहिष्ठं कर्तृत्वं प्रतिष्ठापितम् । अधुना तदध्यस्तमात्मनीति प्रतिपादयतीत्युपजीव्योपजीवकभावसङ्गत्येदमाह--- यथा च तक्षोभयथा ॥ ४० ॥ O अत्र ‘असङ्गो ह्ययं पुरुष' (बृ. ४-३-१९) इत्यसङ्गत्वश्रुतेः कर्तुरिष्टसाधन- बोधक विधिवाक्येन विरोधोऽस्ति न वेति सन्देहे पूर्वोक्तशास्त्रार्थवत्त्वादिहेतुभिः कर्तृत्वस्य स्वाभाविकतया तत्प्रतिपादक विधिशास्त्रेण विरोधोऽस्तीति पूर्वः पक्षः । सिद्धान्तस्तु न स्वाभाविकमात्मनः कर्तृत्वं किन्त्वौपाधिकम् । यथा लोके उभयथा तक्षा वास्यादीनि करणान्यपेक्ष्य कर्त्ता सन् दुःखी भवति अनपेक्ष्य तु स्वरूपे- णाकर्ता सुखी भवति, तथात्मापि बुद्ध्यादिकरणान्यपेक्ष्य कर्ता संसरति अनपेक्ष्य तु १' 'अपि त्वौ' इति खपुस्तके पाठः.