पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां १ तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । नैवाणुजींवः सर्वगतस्यैव ब्रह्मणो जीवभावेन प्रवेशश्रवणात् तादात्म्योपदेशाच । कथं तर्हि जीवेऽणुत्वव्यपदेश: तद्गुणसारत्वात् तस्या बुद्धेर्गुणा अणुत्वोत्क्रान्तिगत्यागतिसुखदुःखादयः, ते गुणाः सारं प्रधानं यस्य जीवस्य स तथा, तस्य भावस्तत्त्वं, तस्मात् तद्व्यपदेशोऽणुत्वादिव्यपदेशः न स्वाभाविकः प्राज्ञवद्, यथा प्राज्ञस्य परमात्मनः सगुणोपासनेषु दहराद्युपाधिवशा- दणुत्वादिकं व्यपदिश्यते तद्वदित्यर्थः ॥ २९ ॥ नन्वात्मन्यणुत्वादिसंसारस्य बुद्ध्युपाधिकत्वे कदाचित् बुद्ध्या वियोगे संसारो न स्यादित्यत आह - यावदात्मभावित्वाच्च ७८ न दोषस्तदर्शनात् ॥ ३० ॥ बुद्धिसंयोगस्य यावदात्मनः सम्यग्दर्शनेन संसारो न निवर्तते तावद्भावि- त्वान्नोक्तदोषः । तत् कस्मात् तद्दर्शनाद् देहवियोगेऽपि तस्य बुद्धिसंयोगस्य 'स समानः सन्नुभौ लोकावनुसञ्चरति' (बृ. ४-३-७) इत्यादिश्रुतौ दर्शनादि- त्यर्थः ॥ ३० ॥ , ननु सुषुप्तौ ब्रह्मसम्पत्तिकार्यनाशयोरभ्युपगमान्न बुद्धिसंयोगस्य यावदात्म- भावित्वमित्यत आह - पुंस्त्वादिवत् तस्य सतोऽभिव्यक्तियोगात् ॥ ३१ ॥ यथा बाल्ये पुंस्त्वादेः सत एव यौवनेऽभिव्यक्तिस्तद्वत् तस्य बुद्धिसंयो- गादेः सुषुप्तौ सूक्ष्मात्मना सत एवाभिव्यक्तिसम्भवाद् यावदात्मभावित्वं न विरु- ध्यत इत्यर्थः ॥ ३१ ॥ आह ननु बुद्ध्यपरपर्यायान्तःकरणे किं प्रमाणं, यत्प्रयुक्तः संसार: स्यादित्यत - नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥ ३२ ॥ इदमन्तःकरणमवश्यमभ्युपगन्तव्यम् । अन्यथानभ्युपगमे सर्वेषामिन्द्रियाणां स्वस्वविषयसन्निधानदशायां नित्योपलब्धिप्रसङ्गः युगपत् सर्वविधयोपलब्धिप्रसङ्गः मनोव्यतिरिक्तज्ञानसामग्रयाः सत्त्वात् । यदि सत्यामपि सामग्रयां जानाभावः, तदा नित्यमनुपलब्धिप्रसङ्गः | कस्याप्युपलब्धिर्न स्यात् । अथवैकस्योपलब्धिाम- + 'त्वस्य' मुद्रिताद्वैतभाष्यादौ पाठः,