द्वितीयाध्याये द्वितीयः पादः । असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २१ ॥ असति हेतौ कार्योत्पत्त्यङ्गीकारे पूर्वज्ञानचक्षुरालोकविषयेषु चतुर्षु हेतुषु सत्सु कार्य नीलादिविज्ञानं जायत इत्यत्याः प्रतिज्ञाया उपरोध: स्याद् अन्यथा काय सहेतुकमित्यङ्गीकृत्य कार्यपर्यन्तं हेतोः स्थित्यङ्गीकारे हेतुफलयोर्योगपद्यमेक- स्मिन् काले स्थितिः स्यादित्यर्थः । एवञ्च क्षणिकत्वप्रतिज्ञाहानिरिति भाव इति ॥ समुदायस्य कारणत्वं क्षणिकत्वं चासिद्धमित्यभिधायाधुनाभ्युपगमान्तरं प्रतिसङ्ख्या प्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २२ ॥ प्रत्याह- " वैनाशिकाः खलु भावानां बुद्धिपूर्वकनाशोऽबुद्धिपूर्वकनाश आकाशं चेति त्रितयमप्यवस्तु निरुपाख्य मित्याचक्षते । तत्राकाशं परस्तात् प्रत्याख्यास्यति । ना- शद्वयमधुना प्रत्याचष्टे । प्रतिसंख्या प्रति सङ्ख्यानिरोधौ बुद्धिपूर्वका बुद्धिपूर्वकनाशौ । तयोः सन्तानसन्तानिष्वप्राप्तिरसम्भवः कुतः, अविच्छेदात् न तावन्निरोधद्वयस्य सन्तानगोचरत्वं सन्तानस्याविच्छेदात् । नापि सन्तानिप्रतियोगिकत्वं सन्ता- निनां घटादीनां क्षणिकत्वेन बुद्धिपूर्वकनाशायोगात् । नाम्यबुद्धिपूर्वक समूलनाश- स्त्वदभ्युपगतः सम्भवति मूलस्य मृदादेः प्रत्यभिज्ञायमानत्वात् । तस्मान्निरोधद्व- यस्यानुपपत्तिरित्यर्थः ॥ २२ ॥ प्रतिसंख्यानिरोधान्तर्भूतम विद्यानिरोधं निरस्यति- उभयथा च दोषात् ॥ २३ ॥ क्षणिकेषु स्थिरत्वादिभ्रान्तिरविद्या | तस्याः किं सम्यग्ज्ञानान्नाशः स्वतो या नाद्यः निर्हेतुकनाशाभ्युगमहानिप्रसङ्गात् । द्वितीये सम्यग्ज्ञानोपदेशानर्थ- क्यनित्युभयथापि दोषादसङ्गतं सौगतमतमित्यर्थः ॥ २३ ॥ इत्थं निरोधद्वयस्य निरुपाख्यत्वं निरस्याकाशस्य तन्निरस्यति- आकाशे चाविशेषात् ॥ २४ ॥ ‘आत्मन आकाशः सम्भूत' (तैं. २. १) इति श्रुत्या शब्दगुणत्वेन चा- काशेऽपि पृथिव्यादिवद्वस्तुत्वप्रतिपत्तेरविशेषान्न निरुपाख्यत्वमित्यर्थः ॥ २४ ॥ अधुनात्मनः क्षणिकत्वं निराचष्टे- अनुस्मृतेश्च ॥ २५ ॥
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/७७
दिखावट