पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां ४ समुदायाधिकरणम् एवमधवैनाशिकवैशेषिक मतनिराकरणानन्तरं पूर्णवैनाशिकमतं बुद्धिस्थ- मिदानीं निराक्रियत इत्यवान्तरसङ्गत्येदमाह - समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ १८ ॥ फलं पूर्ववत् । चत्वारः खलु बुद्धमुनेर्विनेया वैभाषिकसौत्रान्तिकवि- ज्ञानवादि सर्वशून्यवाद्याख्याः । तत्रादौ वैभाषिकसौत्रान्तिकयोर्वाद्यास्तित्वाविशे- षात् तन्मतमेकीकृत्य तत् किं प्रमाणमूलं भ्रान्तिमूलं वेति सन्देहे पृथिव्यादिच- त्वारि भूतानि भौतिकानि विषयेन्द्रियाणि च परमाणुपुञ्ज त्वरूपाणि, तत्र बाह्यः पृथिव्यादिसमुदायः परमाणुहेतुक एवं आध्यात्मिको रूपादिसमुदायो रूपवि ज्ञानवेदना संज्ञा संस्कार लक्षणपञ्च स्कन्धहेतुक इति तन्मतं प्रामाणिकमिति पूर्वः पक्षः । सिद्धान्तस्तु उभयहेतुकेऽपि समुदाये परमाणुहेतुके बाह्यसमुदाये स्कन्धहे- तुक आध्यात्मिकसमुदाये च तदप्राप्तिः तस्य समुदायस्याप्राप्तिः अचेतनानां पर- माणूनां स्कन्धानां च स्वतः समुदायायोगाद्, अन्यस्य च स्थिरस्य चेतनस्य स- मुदायकर्त्तुरनभ्युपगमात् । अतस्तन्मतं भ्रान्तिमूलमिति सिद्धम् ॥ १८ ॥ ननु संहन्तुश्चेतनस्याभावेऽपि सङ्घात उपपद्यत इत्याशङ्कय परिहरति- इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ १९ ॥ अविद्या संस्कारो विज्ञानमित्येवञ्जातीयकानामविद्यादीनामितरेतरप्रत्ययत्वा- दितरेतरकारणत्वाद् घटीयन्त्रवदनिश मावर्तमानेष्वविद्यादिप्वर्थादाक्षिप्तसङ्घात उप- पद्यत इति चेन्न । उत्पत्तिमात्रनिमित्तत्वाद् अविद्यादीनाभितरेतरकारणत्वेऽप्युत्पत्ति- मात्रे निमित्तत्वात् तवाभिमतो हेत्वधीनः कारणसमुदायाधीनश्च कार्योत्पादो न सम्भवति संहन्तुः स्थिरस्य चेतनस्यानङ्गीकारादित्यर्थः ॥ १९ ॥ ● सर्वक्षणिकत्ववादिनां हेत्वधीनोऽपि कार्योत्पादो न सम्भवतीत्याह- उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥ कार्यकाले विद्यमानस्यैव मृदादेः कारणत्वं दृश्यते न तु नष्टस्य | भवन्मते तूत्तरस्य कार्यक्षणस्योत्पादे पूर्वकारणक्षणस्य निरोधाद्विनाशाङ्गीकारा- दित्यर्थः ॥ २० ॥ ननु निर्हेतुक एव कार्योत्पादोऽस्तु । तथा च नोक्तदोष इत्याशङ्कयाह-