किञ्च- द्वितीयाध्याये द्वितीयः पादः । समवायाभ्युपगमाञ्च साम्यादनवस्थितेः ॥ १३ ॥ , तदभाव इत्यनुषङ्गः । तस्य व्यणुकादिसृष्ट्युत्पादस्याभावः कुतः, परमाणुब्यणुकानां समवायाभ्युपगमात् । अस्त्वभ्युपगमः किं तेन, साम्यादनव- स्थितेः यथैव ह्यणुभ्यामत्यन्तभिन्नं सद् व्यणुकं समवायेन ताभ्यां सम्बध्यते, एवं समवायोऽपि समवायिभ्योऽत्यन्तभिन्नः सन्नन्येन समवायेन समवायिभिः सम्बध्येत, अत्यन्तभेदसाम्यात् । ततश्च तस्य तस्यान्योऽन्यः समवायः कल्पनीय इत्यनवस्था- नात् । एवं च समवायासिद्धौ समवेतद्व्यणुकादिसृष्ट्यसिद्धिः स्यादित्यर्थः ॥ १३ ॥ अपि च- नित्यमेव च भावात् ॥ १४ ॥ परमाणुनां प्रवृत्तिस्वभावत्वे प्रवृत्तेर्नित्यमेव भावात् प्रलयाभावप्रसङ्गः, नित्र- त्तिस्वभावत्वे निवृत्तेर्नित्यमेव सत्त्वात् सृष्ट्यभावप्रसङ्ग इत्यर्थः ॥ १४ ॥ इत्थं परमाणूनां कारणत्वं निराकृत्य निरवयवत्वं निराकर्तुमाह- रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ १५ ॥ वैशेषिकमते जगत्कारणपरमाणूनां रूपादिमत्त्वान्निरवयवत्वाणुत्वनित्यत्ववि- पर्ययः सावयवत्वादिः प्रसज्येत, लोके रूपादिमतः पटादेस्तथा दर्शनादित्यर्थः ॥ किश्च - उभयथा च दोषात् ॥ १६ ॥ वैशेषिकमते परमाणवः किमुपचितानुपचितगुणात्मकाः कल्प्यन्ते न वा । आद्येऽणुत्वव्याघातः, उपचितानुपचितगुणात्मकपृथिव्यादेः स्वरूपोपचयदर्शनात् । द्वितीये तत्कार्यपृथिव्यादिषु रूपाद्यनुपलम्भप्रसङ्ग इत्युभयथापि दोषादनुपपन्नः परमाणुकारणवादः ॥ १६ ॥ अपि च- - • अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७ ॥ परमाणुकारणवादस्य केनचिदप्यंशेन कैश्चिदपि शिष्टैरपरिग्रहात् तत्रात्य- न्तमनपेक्षा श्रेयोर्थिभिः कर्तव्या । अतो वैशेषिकराद्धान्तो भ्रान्तिमूल एवेति सिद्धम् ॥ १७ ॥
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/७५
दिखावट