पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां समन्वयोऽत्र विषयः । स किं 'कारणगुणाः कार्ये स्वसमानजातीयगुणारम्भका' इति न्यायेन विरुध्यते न वेति सन्देहे विरुध्यत इति पूर्वः पक्षः । सिद्धान्तस्तु ह्रस्व- परिमण्डलाभ्यां द्व्यणुकपरमाणुभ्यां महद्दीर्घवच्चशब्दार्थाद् वाशब्दा स्वाणुवञ्च चेतनाद् ब्रह्मणोऽचेतनं जगद् भवतीति योजना एतदुक्तं भवति - वैशेषिका हि । ह्रस्वाणोयेणुकान्महद् दीर्घ च त्र्यणुकं जायते व्यणुकनिष्ठह स्वत्वाणुत्वे त्र्यणुके स्वसमानजातीयह्रस्वत्वाणुत्वे नारभेते । किन्तु यणुकगतत्रित्वसङ्ख्या त्र्यणुके मह- त्त्वादिकमारभते । एवं परिमण्डलात् परमाणोरणु द्यणुकं जायते । परमाणुगतपा- रिमाण्डल्यं परिमाणं यणुके तादृशं पारिमाण्डल्यं नारभते, किन्तु परमाणुगत द्वित्व- सङ्ख्या यणुके ह्रस्वत्वादिकमारभत इति प्रक्रियां प्रदर्शयन्ति । इत्थं प्रदर्शयतां वैशेषिकाणां 'कारणगुणाः कार्ये स्वसमानजातीयगुणारम्भका' इति न्यायाभासं वदतां कथं न लज्जा भवेद्, व्यभिचारस्य स्फुटत्वात् । अतः समन्वयो न विरुध्यत इति सिद्धम् | ‘एतेन शिष्टापरिग्रहा:' (२-१-१२) इत्यस्यायं प्रपञ्च इत्यपौनरु- क्त्यम् ॥ ११ ॥

  • ३ परमाणुजगदकारणत्वाधिकरणम् *

मासङ्गिकाव्यवहितेनास्य न सङ्गत्यपेक्षा । व्यवहितेन तु पूर्व प्रधानस्य चेत- नानाधिष्ठितत्वात् कारणत्वाभावे उक्ते तर्हि चेतनाधिष्ठिताः परमाणवः कारणं जगत इति प्रत्युदाहरणसङ्गत्येदमाह- उभयथापि न कर्मातस्तदभावः ॥ १२ ॥ अत्र पूर्वपक्षे वैशेषिक सिद्धान्तविरोधे समन्वयासिद्धिः सिद्धान्ते तदविरोघे तत्सिद्धिरिति फलभेदः । परमाणुप्रक्रियया जगदुत्पत्तिरिति वैशेषिकराद्धान्तोऽत्र विषयः । स किं प्रमाणमूलो भ्रान्तिमूलो वेति सन्देहे प्रमाणमूल इति पूर्वः पक्षः । सिद्धान्तस्तु वैशेषिकाः खलु कर्मणा प्राक् सृष्टेर्निश्चलयोः परमाण्वोः संयोगे द्यणु- कायुत्पत्तिरित्याचक्षते । तस्य कर्मणः किञ्चिन्निमित्तमभ्युपगम्यते वा न वा । आद्ये कर्मनिमित्तत्वेन प्रसिद्धं जीवप्रयत्नाभिघातादिकमङ्गीकर्तव्यम् । न हि तत् सम्भवति, सृप्ट्युत्तरकालीनत्वात् तस्य । द्वितीये कर्मानुत्पत्तिः । अत उभयथापि न कर्म, अदृष्टस्याचेतनस्य स्वतः कर्माभिमुख्यायोगात् । अतः कर्माभावात् तदभावः यणुकादिक्रमेण सृष्ट्युत्पादस्याभाव इति दिकू । तस्माद्वैशेषिकराद्धान्तो भ्रान्ति- मूल इति सिद्धम् ॥ १२ ॥