सामग्री पर जाएँ

पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय अनुभवमनूत्पद्यमाना स्मृतिरनुस्मृतिः । तद्वलादात्मनोऽनुभवितुर्न क्षणिक- त्वमित्यर्थः । अन्यानुभूते विषयेऽन्यस्मरणायोगादिति भावः ॥ २९ ॥ कारणाभावात् कार्योत्पत्तिरिति पक्षमवशिष्टं निराचष्टे- नासतोऽदृष्टत्वात् ॥ २६ ॥ असतोऽभावात् कार्योत्पत्तिर्न युक्ता, कुतः, अदृष्टत्वाड् निरुपाख्यान्नरविषा- णादेः कार्योत्पत्तेरदृष्टत्वात् । दृष्टत्यादिति वा छेदः । सत एव मृदादेः कार्योत्पत्ते- ष्टत्वादित्यर्थः ।। २६ ।। अधुना प्रवृत्तिमात्रमपि न युक्तमित्याह - उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥ अभावाद् भावोत्पत्त्यङ्गीकार उदासीनानां तत्तत्कार्यसाधनेष्वप्रवर्तमानाना- मपि पुंसां स्वस्वाभिमतकार्यसिद्धिः स्याद् । अतो वैभाषिकसौत्रान्तिकयोर्मतं आन्ति- मूलमेवेति सिद्धम् ॥ २७ ॥

  • ५ उपलब्ध्यधिकरणम् *

पूर्व क्षणिकबाझार्थवादिनिराकरणमकारि । तदुपजीव्य क्षणिक विज्ञानमात्र- वादी प्रत्यवतिष्ठत इत्युपजीव्योपजीवकभावसङ्गत्येदमाह— नाभाव उपलब्धेः ॥ २८ ॥ फलं पूर्ववत् । विज्ञानातिरिक्तवाद्यपदार्थस्याभाव इति विज्ञानवादिनः सि- द्धान्तोऽत्र विषयः । स किं प्रमाणमूलो भ्रान्तिमूलो वेति सन्देहे प्रमाणमूल इति पूर्वः पक्षः । सिद्धान्तन्तु विज्ञानव्यतिरिक्तानामभावो न सम्भवति, कुतः, उपल- ब्धेः, विज्ञानव्यतिरिक्तानामर्थानां घटः पट इत्याद्यनुभवसिद्धत्वादित्यर्थः ॥ २८ ॥ ननु जाग्रद्दशायामुत्पन्नाः सर्वे प्रत्यया निरालम्बनाः प्रत्ययत्वात् स्वप्नग - न्धर्वनगरादिप्रत्ययवादित्याशङ्कय बाधितविषयत्वमुपाधिरित्याह- वैधर्म्याच न स्वप्नादिवत् ॥ २९ ॥ स्वप्नादिप्रत्ययस्य जाग्रत्प्रत्ययस्य चान्योन्यं बाधितविषयत्वरूपवैधर्म्यान्न स्वप्नादिदृष्टान्तेन निरालम्बनत्वं जाग्रत्प्रत्ययस्येत्यर्थः । चशब्देन दृष्टान्ते साध्य- वैकल्यं सूचितं, स्वप्ने प्रातिभासिकविषयाणां सत्त्वादिति । बाह्यार्थानामभावे घट- ज्ञानं पटज्ञानमिति ज्ञानवैचित्र्यं न स्यादिति सूत्रद्वयस्य तात्पर्यम् ॥ २९ ॥