पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय तद् बालाके ! पुरुषोऽशयिष्ट क्व वा एतदभू' (कौ. ब्रा. ४. १९) इत्यादिप्रश्नः । 'यदा सुप्तः स्वमं न कञ्चन पश्यति अथास्मिन् प्राण एकधा भवति' (कौ. ब्रा. ४. २०) इति उत्तरं व्याख्यानम् । ताभ्यां यस्मिञ् जीवस्य स्वापागमने भवतः स एवात्र परमात्मा वेदितव्यतयोपदिष्टः । अपि चैके वाजसनेयिनः बालाक्यजातशत्रु- संवादे ‘य एष विज्ञानमयः पुरुषः कैष तदाभूत् कुत एतदागात् ' (बृ. २-१- १६) 'य एषोऽन्तर्हदय आकाशस्तस्मिञ्च्छेते' (बृ. २. १. १७) इति प्रश्नो- त्तराभ्यां स्पष्टं विज्ञानमयातिरिक्तं परमात्मानमामनन्ति । एतत् कौषतिकिवाक्यं जगत्कर्तरि ब्रह्मणि समन्वितमिति सिद्धम् ॥ १८ ॥

  • ६ वाक्यान्वयाधिकरणम्

पूर्व ब्रह्मोपक्रमसामर्थ्याद ब्रह्मरत्वमुक्तम् । तर्हि तद्वदेव मैत्रेयीब्राह्मणस्य 'न वा अरे पत्युः कामाय' इत्यादिजीवोपक्रम सामर्थ्याज्जीवपरत्वमस्त्विति दृष्टान्त- सङ्गत्येदमाह- वाक्यान्वयात् ॥ १९ ॥ फलं पूर्ववत् । बृहदारण्यके (२-४-५) श्रूयते-आत्मा वा अरे द्रष्टव्यः श्रोतव्य' इत्यादि । तत्र किं जीवो द्रष्टव्यत्वादिरूपेणोपदिश्यते किं वा परमात्मेति संशये जीव इति पूर्वः पक्षः । सिद्धान्तस्तु परमात्मैवात्र द्रष्टव्यतयोपदिष्ट आत्मा, कुतः, वाक्यान्वयाद्, उपक्रमादिपर्यालोचनया वाक्यस्य ब्रह्मण्येवान्वया- दित्यर्थः ॥ १९ ॥ ननु पतिजायादिभोग्यजातेन लिङ्गेन जीवोपक्रमः प्रतीयते । स कथमित्या- शङ्कयाह - प्रतिज्ञासिद्धेलिङ्गमाश्मरथ्यः ॥ २० ॥ जीवब्रह्मणोर्हि कार्यकारणयोर्भेदाभेदौ वर्तेते अत्यन्तभेद एकविज्ञानप्रति- ज्ञाविरोधप्रसङ्गात् । तथा च तत्प्रतिज्ञासिद्धेरिममभेदांशमादाय जीवोपक्रमणं लि- शभित्याश्मरथ्य आचार्यो मन्यते ॥ २० ॥ समाधानान्तरमाह-- उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ॥ २१ ॥ संसारदशायामत्यन्तं ब्रह्मणो भिन्नस्य जीवस्य ब्रह्मात्मत्वसाक्षात्कारात् का-