पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्याये चतुर्थः पादः । र्यकरणसङ्घातादुत्क्रमिष्यत एवम्भावात् परमात्मनैकीभावाद भविष्यदभेदमादाय जीवोपक्रम इत्यौडुलौमिराचार्यो मन्यते ॥ २१ ॥ नन्विदमप्यसङ्गतं सत्यकार्यकारणसङ्घातवतः संसारिणोऽत्यन्तं ब्रह्मभिन्न- स्य मुक्तिदशायामभेदायोगादित्यरुच्या परमं समाधानमाह- अवस्थितेरिति काशकृत्स्त्रः ॥ २२ ॥ men kan ma ब्रह्मण एवाविद्याकल्पितभेदेन जीवरूपेणावस्थितेजींवोपक्रमोsविरुद्ध इति काशकृत्स्न आचार्यः श्रुतितात्पर्यज्ञो मन्यते । ततो द्रष्टव्ये परब्रह्माण मैत्रेयीब्रा- ह्मणवाक्यं समन्वितमिति सिद्धम् ॥ २२ ॥ । प्रकृत्यधिकरणम् पूर्व ' जन्माद्यस्य यतः' (ब्र. १. १. २) इति सूत्रे ब्रह्मणो जगत्कारणत्व- मभिहितम् । तदधुनात्र विचार्यते । एवञ्च सामान्यज्ञानस्य विशेषविचारहेतुत्वात् तेन हेतुहेतुमद्भावसङ्गत्येदमाह -- प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥ अत्र पूर्वपक्ष एकविज्ञानात् सर्वविज्ञान प्रतिज्ञाया गौणत्वं सिद्धान्ते तन्मु. ख्यत्वमिति फलभेदः । तत्र किं ब्रह्मणो जगन्निमित्तत्वमात्रम् उतोपादानत्वमपीति संशये ‘तदैक्षते’तीक्षणपूर्वकर्तृत्वश्रवणान्निमित्तत्वमात्रमिति पूर्व: पक्षः । सिद्धान्त- स्तु प्रकृतिश्च ब्रह्म, चकारान्निमित्तमपि, कुतः, प्रतिज्ञादृष्टान्तानुपरोधाद् 'येनानु- तं श्रुतं भवति' (छा. ६. १. ३) इत्यादिरेकविज्ञानेन सर्वविज्ञानप्रतिज्ञा, यथा ‘सोम्यैकेन मृत्पिण्डेन सर्वे सृण्मयं विज्ञातम्' इत्यादिदृष्टान्तश्च तयोः सामञ्ज- स्यादित्यर्थः ॥ २३ ॥ किश्च-- अभिध्योपदेशाच्च ॥ २४ ॥ ‘सोऽकामयत’ इत्यात्मनो ध्यानोपदेशात् कर्तृत्वम् । 'बहु स्याम्' इति ध्या- नोपदेशात् प्रकृतित्वामिति ॥ २४ ॥ प्रकृतित्वे हेत्वन्तरमाह- साक्षाच्चोभयाम्नानात् ॥ २५ ॥