पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्याये चतुर्थः पादः । 'असदेवेदमग्र आसीद्' (छा. ३-१९-१) इत्यनभिव्यक्तनामरूपवाचिना- सच्छब्देन सत एव समाकर्षान्नासतः कारणत्वशङ्कावकाशः । अतो जगत्कारणवादि- वाक्यसमन्वयो ब्रह्मण्येवेति सिद्धम् ॥ १५ ॥ ४९

  • ५ जगद्वाचित्वाधिकरणम् *

पूर्वमेकवाक्यस्थसच्छब्दबलादसच्छन्दो नीतः इह तु वाक्यभेदाद 'ब्रह्म ते ब्रवाणि' (कौ ब्रा. ४-१) इति बालाकिवाक्यस्थब्रह्मशब्देन प्राणादिशब्दो ब्रह्मपर- त्वेन नेतुमशक्य इति प्रत्युदाहरणसङ्गत्येदमाह - जगद्दाचित्वात् ॥ १६ ॥ अत्र पूर्वपक्षे वाक्यस्य प्राणाद्युपासनापरत्वाद् ब्रह्माण समन्वयासिद्धिः सि- द्धान्ते तत्सिद्धिरिति फलभेदः । कौषीतकिब्राह्मणे (४. १९) श्रूयते – 'यो हवै बालाके! एतेषां पुरुषाणां कर्ता यस्य वैतत् कर्म स वै वेदितव्यः' इति । तत्र वेदि- तव्यः कर्त्ता किं प्राण उत जीव आहोस्वित् परमात्मेति विशये ‘यस्य वैतत् कर्मे'ति चलनात्मककर्मणः प्राणस्यैव सम्भवात् 'एवमेवैष प्रज्ञात्मा एतैरात्मभिरुपभुङ्क्ते' (कौ.. . ब्रा. ४-२०) इति जीवलिङ्गाच्च प्राणजीवाविति पूर्वः पक्षः । सिद्धान्तस्तु पुरु षाणां कर्ता परमात्मैव, कुतः, 'ब्रह्म ते ब्रवाणी' ति ब्रह्मण एवोपक्रमात् क्रियत इति व्युत्पत्त्या कर्मशब्दस्य प्रत्यक्षाद्युपस्थापितजगद्वाचित्वात् । ननु पुरुषाणां ज- गदन्तर्भावात् तत्कर्तृत्वं किमिति पृथगुच्यत इति चेन्न । गार्येण ब्रह्मत्वेनोक्तपु- रुषाणामब्रह्मत्वद्योतनाय गोबलीवर्दन्यायेन पृथगुच्यत इति ध्येयम् ॥ १६ ॥ जीवमुख्यप्राणलिङ्गान्नेति चेत् तद्व्याख्यातम् ॥ १७ ॥ जीवमुख्य प्राणलिङ्गाच न ब्रह्मपरत्वावधारणमिति चेत् तद् व्याख्यातम् प्रतर्दनाधिकरणे 'उपासात्रैविध्यादाश्रितत्वादिह तद्योगाड्' (ब्र. सू. १.१. ३१) इति । प्रतर्दनविचारे कर्मपदस्याविचारादगतार्थता द्रष्टव्या ॥ १७ ॥ किश्च- अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १८ ॥ जैमिनिराचार्योऽस्मिन् प्रकरणे जीवपरामर्शमन्यार्थ ब्रह्मप्रतिपत्त्यर्थं यतो मन्यते, अतो ब्रह्मपरमेवेदं वाक्यम् । कुतो मन्यते, प्रश्नव्याख्यानाभ्यां 'वैष ए-