पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय कात् । अस्मिन्मन्त्रे श्रूयमाणयोरात्माकाशयोः पञ्चविंशतितत्त्वातिरिक्तत्वात् सप्तविं- शतितत्त्व प्राप्तावपसिद्धान्तापातः । तस्मान्नात्र प्रधानादितत्त्वग्रहणमुचितम् ॥ ११ ॥ ननु ते पञ्चत्वसङ्ख्याकाः पञ्चजनाः क इत्यपेक्षायामाह- प्राणादयो वाक्यशेषात् ॥ १२ ॥ प्राण एव आदर्येषां प्राणचक्षुः श्रोत्रान्नमनसां ते प्राणादयः पञ्चजनशब्दे- नोच्यन्ते । कस्माद्, वाक्यशेषात् 'प्राणस्य प्राणमुत चक्षुषश्चक्षुः (वृ. ४-४-१८) इत्यादिवाक्यशेषस्थत्वादित्यर्थः ॥ १२ ॥ नन्वस्तु माध्यन्दिनानां प्राणादिष्वन्नस्याम्नानात् पञ्चसङ्ख्या काण्वानां तदनाम्नानात् कथं पञ्चसङ्ख्येत्यत आह - ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥ ऐकेषां काण्वानामसत्यन्ने 'तद्देवा ज्योतिषां ज्योतिः' (बृ. ४-४-१६) इ- त्यादिपूर्ववाक्यस्थज्योतिषा पञ्चत्वं पूरणीयम् । अतः प्रधानमशब्दमिति सिद्धम् ॥

  • ४ कारणत्वाधिकरणम्

इत्थमधिकरणको प्रधानस्याशब्दत्वसाधनेन ब्रह्माण वेदान्तानां समन्वयः साधितः । अधुना तेषामेव परस्परविरुद्धार्थप्रतिपादकत्वेनानिश्चायकत्वादनुमानसि- द्धप्रधानपर एवोक्तसमन्वयोऽस्त्वित्याक्षेपसङ्गत्या, पूर्वं पञ्चत्वसङ्ख्यापूरणमन्नेन ज्योतिषा वेति विकल्पस्याविरोधेऽपि प्रकृते कारणे वस्तुनि विकल्पायोगाद्विरोधे सत्यप्रामाण्यं वाक्यानामिति प्रत्युदाहरणलक्षणावान्तरसङ्गत्या चेदमाह- कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥ अत्र पूर्वोत्तरयोस्समन्वया सिद्धिस्तत् सिद्धिरिति फलभेदः । अत्र जगत्का- रणवादिवाक्यानि ब्रह्माणि मानं न वेति विशये तेषां परस्परविरोधदर्शनान्न मान- मिति पूर्वः पक्षः । सिद्धान्तस्तु चशब्दः शङ्कानिरासार्थः । ब्रह्मणः कारणत्वे विरोधो नास्ति । कुतः, आकाशादिषु यथा व्यपदिष्टोक्तेः यथाभूत ईश्वर: कारण- त्वेन व्यपदिष्ट एकस्मिन् वेदान्तवाक्ये तथाभूतस्यैवापरास्मन् वाक्येऽप्युक्ते- रभिधानादित्यर्थः ॥ १४ ॥ ननु क्वचिदसतः क्वचित् सत उत्पत्तिश्रवणाद्विरोध इत्याशङ्कयाह- समाकर्षात् ॥ १५ ॥