पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्याये चतुर्थः पादः । , ज्योतिस्तेज उपक्रमे यस्यास्तेजोऽबन्नलक्षणायाः सा ज्योतिरुक्रमा । तुश- ब्दोऽवधारणे । सैवेह निर्धारणीया न प्रधानम् । कस्मात् तथा ह्यधयत एके हि यस्मादेके छन्दोगास्तेजोऽबन्नात्मिकायाः प्रकृतेः 'यदम्ने रोहितं रूपम् ' (छा. ६- ४- १) इत्यादिना रोहितादिरूपतामधीयते समामनन्ति । तथेह लोहितादिशब्द- साम्यात् तान्येव तेजोऽबन्नानि प्रत्यभिज्ञायन्त इति समञ्जसम् ॥ ९ ॥ नन्वजाशब्दस्यच्छागे रूढत्वात् कथं तेजोऽबन्नात्मकप्रकृतिपरत्वमित्यत आह- ✔ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥ चशब्दः शङ्कानिरासार्थः। तेजोऽबन्नात्मकप्रकृतौ नाजात्वानुपपत्तिः । कुतः, कल्पनोपदेशाद्, यथा लोके प्रसिद्धामजां भुक्तभोगामेकोऽजस्त्यजति अन्यस्तामनु- वर्तते एवं त्यागभोगयोः कार्यकरणसङ्घातायुपादान तेजोऽबन्नात्मकप्रकृतेस्साम्यद्यो- तनार्थं कल्पनयाजात्वस्योपदेशाद् | यथा मधुभिन्नादित्यस्य 'असौ वा आदित्यो देवमधु' (छा. ३.१.१) इति मधुत्वोपदेशस्तद्वदजाभिन्नायाः प्रकृतेरजात्वोपदेशे न कश्चिद्विरोधः । तस्मान्नात्र प्रधानस्यावकाश इत्यशब्दं प्रधानमिति सिद्धम् ।। १० ।।

  • ३ संख्योपसंग्रहाधिकरणम्

पूर्वमाध्यात्मिकाधिकारे प्रसिद्धच्छागग्रहणायोगादजा तेजआदिकेत्युक्तम् । तथा 'यस्मिन् पञ्च पञ्चजना' (बृ. ४-४-१७) इति मन्त्रे पञ्चजनशब्देन प्रसिद्ध- मनुष्यग्रहणायोगात् साङ्ख्या भिमतपञ्चविंशतितत्त्वग्रहणमस्त्विति दृष्टान्तसङ्गत्येद- माह - न सङ्ख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥ अत्र फलं पूर्ववद् द्रष्टव्यम् । वृहदारण्यके (४-४-१७) श्रूयते – ‘यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः' इत्यादि । तत्र किं पञ्चजनशब्देन मूलप्रकृ- त्यादीनि पञ्चविंशतितत्त्वान्युच्यन्त उत वाक्यशेषगताः प्राणादय इति संशये तत्त्वानीति पूर्वः पक्षः । सिद्धान्तस्तु अस्मिन् मन्त्रे श्रूयमाणया पञ्चविंशतिसङ्ख्यया स्मृतिसिद्धपञ्चविंशतितत्त्वानामुपसंग्रहादपि न प्रधानस्य शब्दवत्त्वं, कुतः, नानाभा- बात्, तेषां पञ्चानां पञ्चकानामेकपञ्चकपर्याप्तान्यपञ्चकव्यावृत्तधर्मवत्त्वाभावेन ना- नात्वात् । नानात्वेऽपि कथञ्चित् पञ्चविंशतिसङ्ख्याङ्गीकारे बाधकान्तरमाह अतिरे •