सामग्री पर जाएँ

पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्स्वप्रकाशिकाय त्रयाणामेवाग्निजीवपरमात्मनामेव एवमुत्तरवाक्यपर्यालोचनया वक्तव्यत्वे- नोपन्यासः । तद्विषय एव प्रश्नोऽपि दृश्यते । कठवल्यां (१-१-१३) 'स त्वमग्निम् ' इत्याद्यग्निप्रश्नः । 'येयं प्रेते विचिकित्सा' (१-१-२०) इति जीवप्रश्नः । 'अन्यत्र धर्माद्' (१-२-१४) इत्यादि परमात्मप्रश्नः । अतो नाव्यक्तं प्रधान- मित्यर्थः ॥ ६ ॥ श्रौतोऽव्यक्तशब्दो न साङ्ख्यसाधारणतत्त्वगोचरः वैदिकशब्दत्वान्महच्छ- ब्दवदित्याह- ३८ महद्दच ॥ ७ ॥ 'बुद्धेरात्मा महान् पर:' (का. १-३-१०) इति श्रुतो महच्छब्दो यथा न साङ्ख्याभिमत द्वितीयसत्तामात्रतत्त्ववाची आत्मशब्दप्रयोगात्, तद्वन्न वैदिकाव्यक्त- शब्दोऽपि प्रधानवाची । अतः शरीरमेवाव्यक्तशब्दितमिति सिद्धम् ॥ ७ ॥ २ चमसाधिकरगम्

पूर्वमव्यक्तशब्दमात्रेण प्रधानस्याप्रत्यभिज्ञायामप्यत्र त्रिगुणत्वादिलिङ्गोपे- तादजाशब्दात् प्रत्यभिज्ञास्त्विति प्रत्युदाहरण सङ्गत्येदमाह चमसवदविशेषात् ॥ ८ ॥ - अत्र पूर्वपक्षे ब्रह्मणि समन्वयासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलभेदः । श्वेताश्वतरोपनिषदि (४. ५) श्रूयते – 'अजामेकां लोहितशुक्लक्कृष्णाम्' इत्यादि । तत्र किमजाशब्देन प्रधानमुच्यते उत तेजोऽबन्नात्मिकावान्तरप्रकृतिरिति संशये न जायत इत्यजा साङ्ख्यसिद्धा प्रकृतिरिति पूर्वः पक्षः । सिद्धान्तस्तु न प्रधानस्या- साधारण्येनात्र प्रत्यभिज्ञापकं किञ्चित् समस्ति, लोहितादिशब्दानां वर्णविशेष एव रूढत्वान्न रज आदौ, न जायत इत्यजेत्यन्यत्रापि साधारण्यात् । अत्र निर्धारणा- भावे दृष्टान्तश्चमसवद् । 'यथार्वाबिलश्चमस' (बृ. २-२-३) इत्यादावयं चमस इत्यवधारणं न सम्भवति कथञ्चिदर्वाग्विलत्वादेरन्यत्राप्यविशेषाद् एवमजामन्त्रे- •ऽप्यजात्वादेरविशेषान प्रधाननिर्णय इत्यशब्दं प्रधानमित्यर्थः ॥ ८ ॥ ननु केयमजा प्रतिपत्तव्येत्यत्राह - ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९ ॥

--