पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थाध्याये चतुर्थः पादः । भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥ शरीरेन्द्रियाणां मनस इव भावं सत्त्वं जैमिनिराचार्यो मन्यते 'स एकधा भवति त्रिधा भवति' (छा. ७-२६-२) इत्यादिना विदुषोऽनेकधाभावविकल्पाम- · ननात् । न हि शरीरभेदं विना कदाचिदेकधाभावः कदाचित् त्रिधाभावः सम्भ- वतत्यिपरः पक्षः ॥ ११ ॥ सिद्धान्तस्तु - द्वादशाहवदुभयविधं बादरायणोऽतः ॥ १२ ॥ अत एव मनसेति बिशेषणादनेकधाभावविकल्पाभिधानाच्चेति लिङ्गद्वयाद् यदा शरीरादिसङ्कल्पः तदा शरीरेन्द्रियवत्त्वं, यदा तु तत्सङ्कल्पाभावस्तदा शरी- रेन्द्रियवत्त्वाभाव इत्युभयविधं विदुष ऐश्वर्यं बादरायण आचार्यो मन्यते द्वादशाह - बद् । यथा 'द्वादशाहमृद्धिकामा उपेयुः' इत्युपायिचोदनागम्यत्वाद् द्वादशाहस्य सत्रत्वं 'द्वादशाहेन प्रजाकामं याजयेदि' त्यहर्गणत्वे सति यजतिचोदनागम्यत्वाद- हीनत्वं चेत्युभयविधत्वं, तद्वदित्यर्थः ॥ १२ ॥ ननु विदुषः शरीराद्यभावे कथं भोगस्तत्राह— १८१ तन्वभावे सन्ध्यवदुपपत्तेः ॥ १३ ॥ तनोः सेन्द्रियस्य शरीरस्याभावकाले सन्ध्यवद् यथा स्वप्ने मानसिकविष- यभोगो जाग्रद्विलक्षणस्तद्वद् भोगः । कुतः, 'मनसैतान् कामान् पश्यन् रमते' इति श्रुतेरेवमेवोपपत्तेरित्यर्थः ॥ १३ ॥ ननु देहाद्यभावेऽपि भोगसत्त्वे शरीरादिसत्त्वाङ्गीकारो व्यर्थः स्यात् । अत आह. भावे जाग्रत् ॥ १४ ॥ देहादिभावकाले यथा जाग्रद्भोगः स्वप्नभोगविलक्षणो भवति, तद्व- दित्यर्थः ॥ १४ ॥

६ प्रदीपाधिकरणम् ननु विकल्पामननलिङ्गेन विदुषोऽनेकशरीराणि सन्तीत्यभाणि । तद्व्यर्थं, • निरात्मकेषु तेषु भोगायोगादित्याक्षेपसङ्गत्येदमाह- प्रदीपवदावेशस्तथा हि दर्शयति ॥ १५ ॥