पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां ककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति' (छा. ८-२-१) इति । तत्र किं ब्रह्मलोकस्थस्य विदुषः सङ्कल्पादेव पित्रादिविभूतिप्राप्तिः, उत यत्नान्तरसहक्क- तात् तस्मादिति सन्देहे विदुषः सङ्कल्पो यत्नान्तरसापेक्षः भोगसामग्रीसङ्कल्प- त्वाद् अस्मदादिसङ्कल्पवदित्यनुमानेन यत्नान्तरसहकृतात् सङ्कल्पाद्विभूतिप्राप्तिरिति पूर्वः पक्षः । सिद्धान्तस्तु केवलात् सङ्कल्पादेवास्य विदुषः पित्रादिविभूतिप्राप्तिः । कुतः, तच्छ्रुतेः ‘ सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ती' ति यत्नान्तरनिरपेक्षसत्यस- ङ्कल्पश्रुतेः । तया च श्रुत्या लौकिकानुमानस्य बाधो द्रष्टव्यः । यदि सङ्कल्पः साध- नान्तरसापेक्षः, तर्हि तदभावे विदुषो वन्ध्यसङ्कल्पत्वात् सत्यसङ्कल्पत्वं हीयेत । सङ्कल्पानुगुणसाधनान्तरं त्विष्टमेवेत्यदोषः ॥ ८ ॥ किञ्च अत एव चानन्याधिपतिः ॥ ९ ॥ अत एव सत्यसङ्कल्पत्वादेव विद्वाननन्याधिपतिर्भवति । यदि विदुषः कश्चिदधिपतिः स्यात्, तर्हि तदधीनभोगस्य सङ्कल्पमात्रसाध्यत्वाभावात् सत्यस- कल्पत्वं न स्यात् । तस्माद् ब्रह्मात्मकस्य विदुषः सङ्कल्पादेव सर्वैश्वर्यप्राप्तिरिति सिद्धम् ॥ ९ ॥

  • ५ अभावाधिकरणम् *

पूर्वाधिकरणदृष्टान्तसङ्गत्येदमाह- अभावं बादरिराह ह्येवम् ॥ १० ॥ अत्र पूर्वपक्षे विशेषणश्रुतेरनेकधाभावश्रुतेर्वा मुख्यार्थत्वसिद्धिः, सिद्धान्ते द्वयोरपि श्रुत्योर्विदुषः सत्यसङ्कल्पत्वादेव मुख्यार्थत्वसिद्धिरिति फलभेदः । 'सङ्क- ल्पादेव' (छा. ८-२-१) इति श्रुत्या विदुषस्तावन्मनोऽस्तीत्यवगतम् । किं तस्य शरीरेन्द्रियाणि न सन्ति, उत सन्ति, आहोस्वित् सन्ति न सन्ति चेति सन्देहे यथा सङ्कल्पादेवेत्यवधारणश्रुत्या साधनान्तराभाव उक्तः, एवं बादरिराचार्यः शरी- रेन्द्रियाणामभावं मन्यते । आह ह्येवमभावमाम्नायः- ‘मनसैतान् कामान् पश्यन् रमते' ‘य एते ब्रह्मलोके' (छा. ८-१२- ५, ६) इति । यदि विदुषः शरीरादिकं स्यात् तदा मनसेति विशेषणमन्ययोगव्यवच्छेदकमनर्धकं स्यादित्येकः पूर्वः पक्षः ॥ १० ॥