पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थाध्याये चतुर्थः पाद: । १७९ त्रात्मनावतिष्ठते, आहोस्विद्वस्तुतश्चिन्मात्री जीवान्तरव्यवहारदृया कल्पितसंवैज्ञ- त्वादिमानिवावतिष्ठत इति सन्देहे सत्येन सर्वज्ञत्वादिना युक्तो मुक्तोऽवतिष्ठत इति जैमिनिराचार्यो मन्यते । कुतः, उपन्यासविधिव्यपदेशेभ्यः । तत्र 'सोऽन्वे- ष्टव्यः' इति विधानार्थमागतो 'य आत्मा अपहतपाप्मा' (छा. ८-७-१) इत्यादि- रुद्देश उपन्यासः । ‘तस्य सर्वेषु लोकेषु कामचारो भवति' (छा. ७-२५-२) इत्या- दिरज्ञातज्ञापको विधिः । 'यः सर्वज्ञ' (मु. १-१-९) इत्यादिर्व्यपदेशः । सोऽयं नोद्देशो विध्यभावात् । नापि विधिः सिद्धवनिर्देशाद्, अपि तूभयविलक्षणः । अतस्तेभ्यो हेतुभ्यः सप्रपञ्च एव मुक्तात्मेत्याद्यः पूर्वपक्षः ॥ ५ ॥ द्वितीयं पूर्वपक्षमाह - चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६॥ जीवात्मनस्तदात्मकत्वाच्चैतन्यौत्मकत्वाच्चितितन्मात्रेण चैतन्यात्मनावस्थिते मुक्ते ब्रह्माण सर्वज्ञत्वादिशब्दा निरर्थका एव प्रयुज्यन्त इत्यौडुलोमिराचार्यो मन्यते सर्वज्ञत्वादिधर्माणामत्यन्तासत्त्वादिति ॥ ६ ॥ सिद्धान्तस्तु - एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॥ ७ ॥ एवमपि पारमार्थिकचैतन्यमात्रस्वरूपाभ्युपगमेऽपि पूर्वोक्तोपन्यासादिभ्यः पूर्वभावात् पूर्वस्य ब्रह्मस्वरूपस्य सर्वज्ञत्वादेर्व्यावहारिकस्य भावाद् ब्रह्मणो मुक्ता- त्मनः सप्रपञ्चत्वनिष्प्रपञ्चत्वयोरविरोधं बादरायण आचार्यो मन्यते इत्यर्थः । आ- विद्यकधर्माणां सर्वज्ञत्वादीनामुपपत्तेर्न तेषां तुच्छत्वमिति भावः ॥ ७ ॥

  • ४ सङ्कल्पाधिकरणम् *

पूर्वत्र ब्रह्मणि विशेषासम्भवादविशेष प्रवृत्तौपि सविशेषत्वश्रुतिरौपाधिकवि- षये व्यवस्थापिता । न तथेहाविशेषप्रवृत्तमनुमानमयोगिविषये व्यवस्थापनीयं यो- गिन्यपि सङ्कल्पादतिरिक्तसाधनसम्भवादिति प्रत्युदाहरणसङ्गत्येदमाह - सङ्कल्पादेव तु तच्छ्रुतेः ॥ ८॥ अत्र पूर्वपक्षे लोकवृत्तानुसरणं फलं, सिद्धान्ते तु विद्याबलेन सङ्कल्पस्यैव भोगपुष्टिकरत्वसिद्धिः फलमिति विवेकः । दहरविद्यायां श्रूयते 'स यदि पितृलो- ३.' त्तावपि' ख. पाठ:. " १. 'न्यत्वात्म' क. पाठः, २. 'न्यतास्व' क. पाठ:.