पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय अत्र पूर्वपक्षे एकस्मिन्नेव देहे भोगः, सिद्धान्ते सर्वेष्विति फलभेदः । किं विदुषा सृज्यमानानि शरीराणि दारुयन्त्रवन्निरात्मकानि, उतास्मदादिशरीरवत् सात्मकानीति सन्देहे निरात्मकानीति पूर्वः पक्षः । सिद्धान्तस्तु विदुषा सृज्यमाने- प्वनेकशरीरेषु विदुष आवेशोऽभिव्यक्तिर्विद्यासामर्थ्यादुपपद्यते प्रदीपवद् । यथा प्रदीप एकोऽनेकवर्तिषु प्रविशति तद्वद्विद्वाननेकान्तःकरणद्वारा देहेषु प्रविशति । तथा हि दर्शयति श्रुतिः ‘स एकधा भवति' (छा. ७-२६-२) इत्यादिका । त- स्मात् सर्वाण्यपि शरीराणि सात्मकान्येवेति सिद्धम् ॥ १५ ॥ ननु विदुषो न शरीरवत्त्वं युक्तं 'तत् केन कं पश्येद्' (बृ. ४-५-१५) इति 'ततोऽन्यद्विभक्तं यत् पश्येद्' (वृ. ४-३-२३) इति विशेषज्ञानाभावश्रवणा- दित्यत आह - स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ १६ ॥ सुषुप्तिमुक्त्योरन्यतरापेक्षमिदं विशेषज्ञानाभावश्रवणम् | हि यतः प्रकरणा- देवमाविष्कृतं सुषुप्तिप्रकरणापेक्षया 'ततोऽन्यदि'त्यादि श्रुतम् । परममुक्तिप्रकरणा- पेक्षया 'तत् केने'त्यादि । तस्मात् सगुणविदः शरीराङ्गीकारे न बाधकमिति ॥ १६॥

  • ७ जगड्यापाराधिकरणम्

सङ्कल्पमात्रेण देहादिसर्गे विदुष उत्सर्गतः सर्वैश्वर्यमुक्तम् । तस्येह जगदुत्पत्त्यादावपवादः क्रियत इत्याक्षेपसङ्गत्येदमाह - - जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाच्च ॥ १७ ॥ अत्र पूर्वपक्षे ईश्वरनानात्वं, सिद्धान्ते तदैक्यमिति फलभेदः । किं विदुष ऐश्वर्यमीश्वरस्येव निरङ्कशम् उत सातिशयमिति विशये निरङ्कुशमिति पूर्वः पक्षः । सिद्धान्तस्तु जगदुत्पत्त्यादिव्यापारवर्जं सातिशयमेवैश्वर्यम् | जगद्व्यापारस्तु परमे- श्वरस्यैव, सृष्टिवाक्येषु सर्वत्र तस्यैव प्रकरणात् प्रकृतत्वात् विदुषश्च तत्रासन्निहि- तत्वादित्यर्थः ॥ १७ ॥ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ १८ ॥ ननु ‘आप्नोति स्वाराज्यम्’ (तै. १-६-२) इति प्रत्यक्षश्रुत्या ऐश्वर्योपदे- शान्निरङ्कुशं विदुष ऐश्वर्यमिति चेद्, न, आधिकारिकमण्डलस्थोक्तेः अधिकारे तत्तव्यापारे नियोजयतीत्याधिकारिकः सूर्यादिमण्डलस्थः परमात्मा, तस्योत्तरवाक्ये 'आमोति मनसस्पतिम्' (ते. १-६-२) इत्यत्र प्राप्यत्वेनोक्तर्विदुषः सातिशयमै-