पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां 'अमानवः स एनान् ब्रह्म गमयति' (छा. ४-१५-५) इत्यमानवपुरुषस्य विद्यु- ल्लोकं प्राप्तानुपासकान् प्रति गमयितृत्वश्रवणादित्यर्थः । यत्तूपदेशस्वारस्याच्चिह्नभूता इति, तन्न, तेषामर्चिरादीनामातिवाहिकत्वे विरोधाभावात् । यत्तु लोकशब्दश्रुते- भोंगभूमय इति, तन्न, निलीनेन्द्रियाणामुपासकानां भोगायोगात् । अतोऽमानवाद- र्वाचीनाचिरादिमानवा आतिवाहिका इति भावः ॥ ४ ॥ ननु लिङ्गमात्रं न तेषां नेतृत्वगमकं न्यायाभावादित्यत आह उभयव्यामोहात् तत्सिद्धेः ॥ ५ ॥ यद्यार्चरादयोऽचेतनास्तर्हि मार्गतद्द्वन्त्रोरुभयोरपि व्यामोहादज्ञत्वादूर्ध्वगतिर्न स्याद् । अतः स्वयं प्रयत्नशून्यश्चेतनान्तरेण नेय इति लौकिकन्यायानुगृहीतालिङ्गात् तत्सिद्धेर्नेतृत्वसिद्धेरित्यर्थः ॥ ५ ॥ ननु विद्युल्लोकादमानवस्यैव नेतृत्वश्रवणात् कथं वरुणादीनां नेतृत्वमित्यत आह- वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ६ ॥ 6 अमानवः पुरुषो विद्युल्लोक आगतो वैद्युतः । तेनैव ततो विद्युत्प्राप्तेरूध्वं नीयमाना उपासकाः कार्यब्रह्म प्राप्नुवन्ति, 'अमानव एत्य ब्रह्मलोकान् गमयति' (वृ-६-२-१५) इत्यमानवस्यैव गमयितृत्वश्रवणात् । वरुणादीनां त्वमानवोपसर्ज- नत्वेन नेतृत्वं न प्राधान्येन । अतोऽर्चिरादयो नेतार इति सिद्धम् ॥ ६ ॥

  • ५ कार्याधिकरणम् *

इत्थं गन्तव्यप्राप्तिहेतुं मार्ग निरूप्य फलभूतं गन्तव्यं निरूपयतीति फल- फलिभावसङ्गत्येदमाह - कार्य बादरिरस्य गत्युपपत्तेः ॥ ७ ॥ अत्र पूर्वपले मार्गस्य मुक्त्यर्थता, सिद्धान्ते भोगार्थतेति फलभेदः । 'स एनान् ब्रह्म गमयति' (छा. ४-१५-५) इत्यत्र किं परं ब्रह्म गन्तव्यमुत कार्यब्रह्मेति संशये परं ब्रह्मेति पूर्वः पक्षः । सिद्धान्तस्तु कार्यमेव ब्रह्म गन्तव्यमिति बादरिरा- चार्यो मन्यते । कुतः, अस्य कार्यस्य ब्रह्मणः परिच्छिन्नस्य गत्युपपत्तेर्गन्तव्य- चोपपत्तेरित्यर्थः ॥ ७ ॥ १. 'मानस एत्य' इति तु मुद्रितोपनिषत्पाठः २. 'ये ना' ख. पाठः