पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थाध्याये तृतीयः पादः । विशेषितत्वाच्च ॥ ८ ॥ ‘ब्रह्मलोकान् गमयति’ (बृ. ६-२-१५) इति श्रुत्यन्तरे बहुवचनेन गन्त- व्यब्रह्मणो विशेषितत्वात् । न परस्येति चकारार्थः ॥ ८ ॥ नु नपुंसकशब्दस्य परस्मिन्नैव मुख्यत्वात् कथं कार्यब्रह्मणि तद्व्यपदेशः, तत्राह सामीप्यात् तु तद्व्यपदेशः ॥ ९ ॥ तुश्चोयनिरासार्थः । परमेव हि ब्रह्म सत्यकामत्यादिभिर्युक्तं कार्यं ब्रह्मेति कथ्यते । तथा च कार्यब्रह्मणः कारणब्रह्मसामीप्यात् कारणे मुख्यस्य ब्रह्मशब्दस्य कार्ये व्यपदेशो लक्षणया प्रयोग इत्यर्थः, मुख्याभावादिति भावः ॥ ९ ॥ ननु कार्यब्रह्मप्राप्तौ 'तेषां न पुनरावृत्ति: ' (बृ. ६-२-१५) इ (तरथा? ति) श्रुतिविरोधः । तत्राह— कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥ कार्यब्रह्मलोकस्यात्यये नाशे सति तदध्यक्षेण तल्लोकस्वामिना हिरण्यग- र्भेण सह अतः कार्याद् ब्रह्मणः परं ब्रह्म प्राप्नुवन्ति उपपन्नसाक्षात्कारा विद्वांस इ- त्यनावृत्तिश्रुत्यभिधानादवगन्तव्यमित्यर्थः ॥ १० ॥ स्मृतेश्च ॥ ११ ॥ 'ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रवि- शन्ति परं पदम्' इति स्मृतेरपि ब्रह्मलोकं प्राप्ताः क्रमेण मुक्ति प्राप्नुवन्तीत्यवग- न्तव्यमित्यर्थः ॥ ११ ॥ इत्थं सिद्धान्तमभिधाय पूर्वपक्षमाह- परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥ नपुंसकब्रह्मशब्दस्य परस्मिन्नेव मुख्यत्वात् परमेव ब्रह्म गमयत्यमानव इति जैमिनिराचार्यो मन्यत इत्यर्थः ॥ १२ ॥ दर्शनाच ॥ १३ ॥ तयोर्ध्वमायन्नमृतत्वमेति' (छा. ८-६-६ । क. पूर्वकैत्वदर्शनाच्च परमेव गमयतीत्यर्थः ॥ १३ ॥ १. 'तुशब्दवो' ख. पाठ:. २. 'कत्वाच' ख. पाठ:. रु. ६. १६) इति मुक्तेर्गति-