पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थाध्याये तृतीयः पादः । १७३ वायुर्निवेशयितव्यः । अग्न्यनन्तरं पाठक्रमस्तूर्ध्वशब्दश्रुतिसिद्धार्थक्रमेण बाध्यते इत्यदोषः । यद्यपि बृहदारण्यके मासानन्तरं देवलोकः श्रूयते, तथापि च्छा- न्दोग्यश्रुत्या मासानन्तरं संवत्सरो निवेशयितव्यः । तस्य मासावयवित्वेन योग्यत्वात् । अत्रैवं क्रमो निष्पन्नः -- मासेभ्यः संवत्सरं संवत्सराद् देवलोकं देवलोकाद्वायुं वायोरादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतमिति । एवं च सूत्रे वायुपदं देवलोकोपलक्षकमिति द्रष्टव्यम् ॥ २ ॥

  • ३ तडिदधिकरणम् *

पूर्वमग्न्यनन्तरं श्रुतस्य वायोः स्थानविशेषश्रवणादर्चिरादिमार्गपर्वत्वेन स- म्बन्ध उक्तः । न तथा वरुणादीनां सम्बन्धः सम्भवति स्थानविशेषाश्रवणादिति प्रत्युदाहरणसङ्गत्येदमाह- तडितोsघि बरुणः सम्बन्धात् ॥ ३ ॥ अत्र पूर्वपक्षे वरुणादेर्मार्गपर्वत्वेन सम्बन्धसिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः । किं कौषीतकिवाक्ये श्रुतो वरुणादिर्मार्ग पर्वत्वेन सम्बध्यते न वेति सन्देहे नेति पूर्वः पक्षः । सिद्धान्तस्तु तडितो विद्युल्लोकादधि उपरिष्टाद्वरुण: सं- बध्यते । कुतः, सम्बन्धाद्, वरुणस्याब्दद्वारा विद्युत्सम्बन्धादित्यर्थः । 'आगन्तुका- नामन्ते निवेश' इति न्यायाद्विद्युदानन्तर्ये सति यथापाठमिन्द्रप्रजापत्योः क्रमो द्रष्ट- व्यो बाधकाभावादिति भावः ॥ ३ ॥

  • ४ आतिवाहिकाधिकरणम् *

पूर्व यथा तडिवरुणसम्बन्धात् तडिदनन्तरं वरुणस्य सम्बन्ध उक्तः, तद्वदिह लौकिकमार्गचिह्नसारूप्यसम्बन्धादाचरादेर्मार्गचिह्नोपदेश इति दृष्टान्तसङ्गत्येदमाह - आतिवाहिकास्तल्लिङ्गात् ॥ ४ ॥ अत्र पूर्वपक्षे उपदेशस्य लोकश्रुतेर्वा मुख्यत्वं, सिद्धान्ते न्यायवल्लिङ्गस्य मु ख्यत्वमिति फलभेदः । किं तेऽर्चिरादयो मार्गचिह्नभूता उत गन्तॄणां भोगभूमय उताहो आतिवाहिका इति 'विशये अर्चिरादयो वृक्षनद्यादिवन्मार्गचिह्नभूताः, अथ वा ‘अग्निलोकं वायुलोकमि’त्यादिलोकशब्दश्रुतेर्भोगभूमय इति पूर्वः पक्षः । सिद्धान्त- स्तु तेऽर्चिंरादय आतिवाहिकाः कार्यब्रह्मगन्तॄणां गमयितारः । कुतः, तल्लिङ्गात् १. 'सन्देहे अ' ख. पाठः