पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय उतं नैकविशेषणयुक्त एक एवेति विशये प्रकरणभेदात् परस्परभिन्ना एवेति पूर्वः पक्षः । सिद्धान्तस्तु सर्वो हि ब्रह्मलोकप्रेप्सुरचिरादिनैकेन मार्गेण गन्तुमर्हति । कुतः, तत्प्रथितेः । तस्यार्चिरादिमार्गस्य पञ्चाग्निविद्याप्रकरणे 'ये चेमेऽरण्ये श्रद्धा तप इ- त्युपासते तेऽर्चिषमभिसम्भवन्ति' (छा. ५-१०-१) इति पञ्चाग्न्युपासकस्येवेतर- स्यापि सगुणब्रह्मोपासकस्य प्रथितेः श्रुतत्वादित्यर्थः । न च प्रकरणभेदान्मार्गभेदः सर्वत्राचिराद्येकदेशप्रत्यभिज्ञानाद् गन्तव्यब्रह्मलोकाभेदाच्च । सर्वत्र सर्वविशेषणोप- संहारेणानेकविशेषणे एक एव मार्ग इत्यनवद्यम् ॥ १ ॥

२ वाय्वधिकरणम् * पूर्व सर्वत्राचिराद्येकदेशप्रत्यभिज्ञानाद् मागैंक्यमुक्तम् । तद्वद् अग्नचनन्तरं वायुपाठप्रत्यभिज्ञानात् तत्रैव वायुर्निवेशयितव्य इति दृष्टान्तसङ्गत्येदमाह- वायुमब्दादविशेषविशेषाभ्याम् ॥ २ ॥ अत्र पूर्वपक्षे पाठक्रमस्यानुसरणं, सिद्धान्ते त्वर्थक्रमात् तस्य बाध इति फलभेदः | ‘स एतं देवयानं पन्थानम् * आसाद्याग्निलोकमागच्छति । स वायु- लोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्' (कौ १-३) इति कौषीतकिनो देवयानं मार्गमामनन्ति । छन्दोगाश्चैवमेवाधीयते 'तेऽर्चिष- भिसम्भवन्ति अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूयमाणपक्षाद्यान् षडदङ्ङेति मासां- स्तान् । मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याचन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति' (छा ५-१०-१, २) इति । तत्र श्रुति- द्वयेsपि अग्निरादौ पठितः । पश्चात् कौषीतकिश्रुतौ वायुः पठितः । स किं वायु- रचिरात्मकामेरनन्तरं निवेशयितव्य उत संवत्सरात् परमिति संशये अग्नेरनन्तर- मिति पूर्वः पक्षः । सिद्धान्तस्तु अब्दात् संवत्सरादनन्तरमादित्यादर्वाग् वायुमभि- संविशन्ति । कुतः, अविशेषविशेषाभ्याम् । कौषीतकिश्रुतौ चायोः कुतश्चिदान- न्तर्यमवक्तुं वा विशेषो न ज्ञायते तद्वाचकपदाभावात् । बृहदारुण्यके तु 'यदा वै पुरुषोऽस्माल्लोकात् प्रैति स वायुलोकमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति' (बृ ५-१०- १) इत्यादित्यादर्वाक्तुं विशेषो दृश्यते । ताभ्यामविशेषविशेषाभ्यां संवत्सरानन्तरं १. 'तानेक' ख. पाठः, २. 'णयुक्त ए' ख. पाठ:. ३. 'लोक' इतिमुव्रितोपनिषत्कोशे

  • 'आपचा' इति तु मुद्रितोपनिषत्कोशेषु पठ्यते.

m ने पठ्यते.