पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थाध्याये तृतीयः पादः । १७१ इति स्मृतिविरोधात् कथं रात्रौ दक्षिणायने वा मृतस्यानावृत्ति: स्यादित्याश- ट्र्याह - योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥ - योगिनः स्मार्तविद्योपासकान् प्रत्ययमहरादिकालविशेषः स्मर्यंते स्मार्तत्व- प्रत्यासत्तेः, न श्रौतदहराद्युपासकान् प्रति । ननु योगिनो दहरायुपासका एव स्मृत्युक्ताः किं न स्युरित्यत आह - स्मार्ते चैते ब्रह्मार्पणबुद्ध्यानुष्ठितं कर्म योगः 'अनाश्रितः कर्मफलम्' (गी, ६-१) इत्यादिस्मृतेः । धारणापूर्वकाकर्तृत्वानुभवः साङ्ख्यं ‘इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्' (गी. ५-९) इति स्मृतेः । एवं चैते योगसाङ्ख्ये स्मार्ते एव न श्रौते । तथा च श्रुतिस्मृत्योरर्थभेदान्न श्रौतोपास्तिषु कालनियमः । यदि श्रौतार्थप्रत्यभिज्ञया कालशब्दस्तदभिमानिदेवतापरस्तर्णैकार्थ्य- मेवेत्यनवद्यम् । तस्माद् विद्वान् सर्वदैव मृतो विद्याफलमामोतीति अतिशोभनम् ।। अस्मिन् पाद एकादशाधिकरणानि, सूत्राण्येकविंशतिः ॥ इति ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां चतुर्थाध्याये द्वितीयः पादः । अथ तृतीयः पादः ।

  • १ अर्चिराद्यधिकरणम्

इत्थमुत्क्रान्ति निरूप्य तत्साध्यं मार्ग निरूपयितुमिमं पादमारभते । पूर्व यदाकदाचिन्मृतस्यापि फलप्राप्तिरुक्ता । तद्वद्येन केनचिन्मार्गेण गतिरिति दृष्टान्त- सङ्गत्येदमधिकरणमारंभ्यते- अचिरादिना तत्प्रथितेः ॥ १ ॥ ५ अत्र पूर्वपक्षे मार्गविकल्पः, सिद्धान्ते मार्गैक्यमिति फलभेदः । अस्ति ब्रह्म- लोकप्राप्तिहेतौ मार्गे श्रुतीनां विप्रतिपत्तिः । तत्र क्वचिद् ‘अथैतैरेव रश्मिभिरूर्ध्व- माक्रमते’ (छा. ८-६-९) इति रश्मिरूपो मार्गः श्रूयते । क्वचित् ‘तेऽर्चिषमभिस- म्भवन्ति' (बृ. ६-२-१५) इत्यचिरादिरूपः । तत्र किं परस्परविभिन्ना एवैते मार्गा १. 'रभते' ख. पाठः, २. 'र्ध्व आक' क. पाठ:.