पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां इति समन्वयप्रतिपादनात् तेषामाध्यायं समन्वयाध्यायसङ्गतिः । प्रथमपादे स्पष्ट- ब्रह्मपरलिङ्गानां वाक्यानां विचार्यत्वादापादं पादसङ्गतिः । उत्तराधिकरणसङ्गतिस्तु तस्यैवानेनेति नास्योच्यते । पूर्वपक्षे विचारानारम्भादुपायान्तरसाध्या मुक्तिः, सि- द्धान्ते तु तदारम्भसम्भवात् तदधीनज्ञानसिद्धेस्तेनैव मुक्तिरिति फलभेदः । अत्र वेदान्तवाक्यविचारो विषयः । स न कर्तव्यः कर्तव्यो वेति विषयप्रयोजनसम्भवा- सम्भवाभ्यां सन्देहे, यद्धि सन्दिग्धं सप्रयोजनं तस्य विचारविषयत्वम् । ब्रह्मणस्तु स्फुटतराहम्प्रत्ययावलम्बनत्वेनासन्दिग्धत्वात् तत्ज्ञानान्मुक्तिलक्षणप्रयोजनाभावाच न विचारविषयत्वम् । अतोऽसम्भावितविषयादिमान् वेदान्तवाक्यविचारो न कर्तव्य इति पूर्वः पक्षः । सिद्धान्तस्तु श्रुतिगम्यब्रह्मात्मतत्त्वस्याहम्प्रत्ययानालम्बनत्वेन सन्दिग्धत्वात् तत्साक्षात्कारादनर्थनिवृत्तिलक्षणमोक्षसम्भवात् सम्भावितविषयादिमान् वेदान्तवा- क्यविचारः कर्तव्य इति । सूत्रार्थस्तु अत्र सूत्रेऽनुवादकत्वेनानर्थक्यपरिहाराय पुरुषप्रवृत्तये च कर्तव्ये- ति पदमध्याहर्त्तव्यम् | नन्वेवमप्यानर्थक्यं तदवस्थमेव, प्रकृतिप्रत्ययार्थयोर्ज्ञानेच्छ- योः कर्त्तव्यतानन्वयादिति चेत्, नैष दोषः । अत्र प्रकृत्या फलीभूतं ब्रह्मापरोक्ष- ज्ञानमजहल्लक्षणया कथ्यते । सन्प्रत्ययेनेच्छासाध्यो विचारो जहल्लक्षणया जेगीय- ते । अर्थादपरोक्षज्ञानस्य मोक्षसाधनत्वं वेदान्तवाक्यानां विचार्यत्वं च लभ्यते । एवञ्च श्रुत्यर्थाभ्यां साधनचतुष्टयसम्पन्नस्याधिकारिणो मोक्षसाधनब्रह्मापरोक्षज्ञानाय वेदान्तविचारः कर्तव्य इति विचारे कर्तव्यतान्वयसम्भवादिति ॥ १ ॥

  • २ जन्माद्यधिकरणम् *

नन्वित्थं ब्रह्मणस्त्रय्यन्तविचारमुखेन विचार्यत्वमवादि, तदसारं लक्षणा- भावेन स्वरूपस्यैवासिद्धेरित्याक्षिप्याह- जन्माद्यस्य यतः ॥ २ ॥ अस्य पूर्वाधिकरणेनाक्षेपिकी सङ्गतिः । अत्र पूर्वपक्षे ब्रह्मस्वरूपासिच्या मुक्त्य- सिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः । अत्र ‘यतो वा इमानि भूतानि' (तै.३.१) इत्यादिवाक्यं विषयः । अत्र श्रूयमाणं जन्मादिकं ब्रह्मलक्षणं न वेति सन्देहे जन्मादर्ज- गन्निष्ठत्वेन ब्रह्मनिष्ठत्वासम्भवान्न तद् ब्रह्मलक्षणम् | न च ‘सत्यं ज्ञानम्’ (तै.२.१)