पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ श्रीसदाशिवेन्द्रसरस्वतीप्रणीता ब्रह्मतत्त्वप्रकाशिकाख्या ब्रह्मसूत्रवृत्तिः । आम्नायान्तैकसंसिद्धमादिमध्यान्तवर्जितम् । आनन्दघनमापूर्णै किञ्चिज्ज्योतिरुपास्महे ॥ १ ॥ नमस्त्रय्यन्तकान्तारविहारैकपटीयसे । वादिमत्तेभसंहर्त्रे व्यासकेसरिणे सते ॥ २ ॥ स्तुवन्मोहतमस्स्तोमभानुभावमुपेयुषः । स्तुमस्तान् भगवत्पादान् भवरोगभिषग्वरान् || ३ || यद्वाणीद्युमणिध्वस्ता मन्मोहध्वान्तसन्ततिः । श्रीगुरून् भावयामस्तांस्त्रय्यन्ताम्बुजभास्करान् ॥ ४ ॥ श्रीमद्देशिकपादाब्जपरिचर्याबलादहम् । भाष्यानुगां ब्रह्मसूत्रवृत्तिं कुर्वे यथामति ॥ ५ ॥

  • १ जिज्ञासाधिकरणम्

इह खलु भगवान् बादरायणः प्रेक्षावत्प्रवृत्त्यौपयिकमापाततस्त्रय्यन्तवचोभिः प्रतिपन्नमनुबन्धजातं न्यायतो निर्णेतुमिदमारचयाञ्चकार- अथातो ब्रह्मजिज्ञासा ॥ १ ॥ इति । अत्राथशब्देन साधनचतुष्टय सम्पत्त्यानन्तर्यमुच्यते । अतश्शब्देन साधनचतुष्ट- यस्य सम्भावना । ब्रह्मजिज्ञासेत्यनेनाज्ञातत्वेन विषयत्वं ज्ञातत्वेन प्रयोजनत्वं ब्रह्मण उ क्तं भवति । एवञ्च प्रेक्षावत्प्रवृत्त्यङ्गभूताधिकार्यादिसमर्पकत्वेन समन्वयाद्यखिलविचा- रोपोद्धातत्वादादावस्य सूत्रस्य सङ्गतिः | विचारविषयवेदान्तवाक्यैः स्वार्थनिर्णया- यास्यापेक्षणाच्छ्रुतिसङ्गतिः । एवं सर्वेषां सूत्राणां श्रुतिसङ्गतिर्दृष्टव्या । विशेषतो ब्रह्मपरवाक्यतात्पर्यनिर्णायकन्यायसूचकत्वाद् ब्रह्मविचारात्मकशास्त्रसङ्गतिः । एवम- ग्रेऽपि शास्त्रे सङ्गतिरूया । 'अथातो ब्रह्मजिज्ञासे' त्यादिसूत्रैः सर्वे वेदान्ता ब्रह्मपरा 1