प्रथमाध्याये प्रथमः पादः । इत्यादिवाक्यस्थसत्यादिकं लक्षणं स्यादिति साम्प्रतं, लोकसिद्धभिन्नार्थकानामेक- ब्रह्मलक्षणत्वासिद्धेरिति पूर्वः पक्षः । सिद्धान्तस्तु अस्य प्रत्यक्षाद्युपस्थापितस्य जगतो जन्मादि जन्म उत्पत्तिरादिर्यस्य जन्मस्थितिभङ्गस्य तज्जन्मादि यतो यस्माद् ब्रह्मणो भवति, तस्य जगज्जन्मादिकारणस्य परस्य ब्रह्मणोऽनादिसिद्धस्य सकलजगजन्मा- दिकारणत्वं तटस्थलक्षणम् । सत्यादिकं स्वरूपलक्षणम् । न च लोकसिद्धभिन्नार्थ- कत्वादेकब्रह्मलक्षणत्वमप्रसिद्धमिति साम्प्रतं, सत्यादिपदानामखण्डार्थकत्वेनैकब्रह्म- पर्यवसायितया लक्षणत्वसम्भवादिति ॥ २ ॥ ३ शास्त्रयोनित्वाधिकरणम् * नन्वित्थं ब्रह्मणो जगत्कारणत्वेन सर्वज्ञत्वमर्थादर्भााणि । तदरमणीयं, वेदस्य नित्यत्वेन जगत्कारणत्वायोगादित्याक्षिप्याह- शास्त्रयोनित्वात् ॥ ३ ॥ अस्य पूर्वाधिकरणेनाक्षेपिकी सङ्गतिः । फलन्तु पूर्वपक्षे ब्रह्मणः सर्वज्ञत्वा- निर्धारणं, सिद्धान्ते तन्निर्धारणमिति द्रष्टव्यम् । 'अस्य महतो भूतस्य निःश्वसितमेत- द्यदृग्वेदो यजुर्वेदः' (बृ. २. ४. १० ) इत्यादिवाक्यं विषयः । तद् ब्रह्मणो वेद- कर्तृत्वेन सर्वज्ञत्वं न साधयति उत साधयतीति सन्देहे 'वाचा विरूपनित्यया' (तै. सं. २. ६. ११) इति वेदस्य नित्यत्वश्रवणात् तत्कर्तृत्वेन सर्वज्ञत्वं न साधयतीति पूर्वः पक्षः । सिद्धान्तस्तु शास्त्रस्य ऋग्वेदादेः सर्वज्ञकल्पस्य योनिः कारणं, तस्य भावस्तत्त्वं, तस्माद्वेदकर्तृत्वात् सर्वज्ञत्वं साधयति । यदवादि पूर्व- वादिना वेदस्य नित्यत्वश्रवणादिति । तदसाधु । 'अस्य महतो भूतस्ये' त्यादि- वेदोत्पत्तिश्रुत्यनुरोधेन नित्यत्वश्रुतेरर्थवादपरत्वात् । न च वेदस्य सकर्तृकत्वे पौरु- षेयत्वं स्यादिति साम्प्रतं, तस्योपलभ्यरचितत्वानङ्गकारादिति । प्रथमवर्णकम् । यद्वा जगत्कारणत्वेन ब्रह्मणि लक्षिते तस्य मानान्तरगम्यत्वमाशङ्कयाह — शास्त्रयोनित्वात् । लक्षणप्रमाणयोर्ब्रह्मनिर्णयार्थत्वादेकफलत्वं सङ्गतिः । अत्र पूर्वपक्षेऽनुमान- स्यैव विचार्यत्वासद्धिः । सिद्धान्ते वेदान्तवाक्यानामिति फलभेदः । 'तन्त्वौपनिषदं पुरुषम्' (बृ. ३. ९. २६) इत्यादिवाक्यं विषयः । तत् किं ब्रह्मणः शास्त्रैकगम्यत्वं समर्पयति उत नेति सन्देहे ब्रह्मणः सिद्धवस्तुत्वेन मानान्तरेणाप्यवगम्यमानत्वान्न
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१७
दिखावट