तृतीयाध्याये प्रथमः पादः । अनिष्टादिकारिणामपि च श्रुतम् ॥ १२ ॥ अत्र पूर्वपक्षे निष्टादिकारिणाम विशेषेण चन्द्रलोकगतेरिष्टादिकरणं व्यर्थं, सिद्धान्ते पापिनां चन्द्रलेोकगत्यभावात् तदर्थमिष्टादिकरणं सार्थकमिति फलभेदः अत्र पापिनां चन्द्रलोकगतिरस्ति न वेति सन्देहे पूर्वः पक्षः । अनिष्टादिकारिणा- मपि चन्द्रलोकगमनं 'ये वै के चास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छ- न्ति' (कौ. १-२) इति श्रुत्या श्रुतम् । अतो धर्मिण एव चन्द्रलोकं गच्छन्तीत्ये- तदसङ्गतमित्यर्थः ॥ १२ ॥ एवं पूर्वपक्षे सिद्धान्तः- संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३ ॥ तुशब्दः पूर्वपक्षनिरासार्थः । संयमने यमालये स्वपापानुरूपा यामीर्यातना अनुभूय पुनरिमं लोकं प्रत्यवरोहन्तीत्येवंभूतावेव तेषां पापिनामारोहावरोहौ भव- तः, कुतः, तद्गतिदर्शनात् । 'अयं लोको नास्ति पर इतिमानी पुनः पुनर्वशमाप- द्यते मे' (कठ. २-६) इति श्रुतौ यमवशत्वलक्षणतद्गतेर्दर्शनादित्यर्थः ॥ १३ ॥ स्मरन्ति च ॥ १४ ॥ मन्वादयः शिष्टाः पापिनां नरकभोगं स्मरन्ति । अतश्च धर्मिणामेव चन्द्र- लोकगमनं नान्येषामित्यर्थः ॥ १४ ॥ अपि च सप्त ॥ १५ ॥ अपि च सप्त रौरवादयो नरकाः पापफलभूमित्वेन स्मर्यन्ते पौराणिकैः । तान् पापिनः प्राप्नुवन्ति न चन्द्रलोकमित्यर्थः ॥ १९ ॥ ननु पापिनो यामीर्यातना अनुभवन्तीति यदुक्तं तदसङ्गतं रौरवादौ चि- त्रगुप्तादीनामधिष्ठातृत्वस्मरणादित्यत आह - तत्रापि च तयापारादविरोधः ॥ १६ ॥ तत्रापि च रौरवादिषु तस्यै यमस्याधिष्ठातृव्यापारादविरोध:, चित्रगुप्ता- दीनां यमप्रयुक्तत्वादिति भावः ॥ १६ ॥ उपासकानामर्चिरादिमार्गः केवलकर्मिणां धूमादिमार्ग इति श्रुतिस्मृतिषु व्यवस्था । तथा चैतन्मार्गद्वयभ्रष्टानां पापिनां तृतीयमार्गोक्तेरपि न तेषां चन्द्रलो- कप्राप्तिरित्याह--
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१०९
दिखावट