पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय णामवरोहणं श्रूयते ‘तस्मिन् यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते' (छा. ५- १०-५) इत्यादि । तत्र किं स्वर्गादवरोहन्तः सानुशया उत निरनुशया इति सन्देहे निरनुशया इति पूर्वः पक्षः । सिद्धान्तस्तु कृतस्य स्वर्गप्रापककर्मजातस्य भोगेनात्य- ये नाशेऽनुशयवान् अनुशयशब्देना मुष्मिकफलप्रापककर्मातिरिक्तं कर्मोच्यते । तद्वा- नेवावरोहति, कुतः, दृष्टस्मृतिभ्याम् | 'तद्य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिमापद्येरन्' (छा. ५-१०-७) इत्याद्या दृष्टा प्रत्यक्षा श्रुतिः । प्रेत्य कर्मफलमनुभूय ततः शेषेण 'विशिष्टदेशकालकुलरूपा युश्श्रुतवृत्तवित्तसुखमेधंसो जन्म प्रतिपद्यन्ते' इति स्मृतिः । ताभ्यामनुशयवन्त एवावरोहन्तीति गम्यते । ते च येन मार्गेण चन्द्रलोकमारूढास्तेनैवावरोहन्ति किं तद्विपरीतेनेत्याकाङ्क्षायामाह यथेतमनेवं च । यथेतं यथागतं धूमादिमार्गेण, अनेवं च तद्विपर्ययेण वक्ष्यमाणा- आदिमार्गेणावरोहन्तीत्यर्थः ॥ ८ ॥ चरणादिति चेन्नोपलक्षणार्थोति कार्णाजिनिः ॥ ९ ॥ ननु 'रमणीयचरणा' इति श्रुतिश्चरणाद्योन्यापत्ति दर्शयति, नानुशयात् । अन्यच्चरणमन्योऽनुशय इति नानुशयसिद्धिरिति चेन्न यतः कार्णाजिनिराचार्य इयं चरण श्रुतिरनुशयोपलक्षणार्थेति मन्यते ॥ ९ ॥ आनर्थक्यमिति चेन्न तद्पेक्षत्वात् ॥ १० ॥ ननु चरणश्रुतेर्मुख्याचारार्थ परित्यागेनानुशयार्थकत्व आनर्थक्यमिति चेन्न । इष्टादिकर्मणामाचारनिर्वर्त्त्यत्वेन चरणापेक्षत्वाच्चरण श्रुतेरर्थवत्त्वमित्यर्थः ॥ १० ॥ वस्तुतः कर्मचरणयोर्न भेद इत्याह -- सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥ बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देनोच्येते इति मन्यते लोक इष्टादिकारिणि धर्मं चरतीति कर्मचरणयोरभेदेन प्रयोगदर्शनात् । अत इष्टादिका- रिणां चन्द्रलोकं गतानाम् पुनरवरोहार्थमनुशयोऽस्तीति सिद्धम् ॥ ११ ॥

  • ३ अनिष्टादिकार्यधिकरणम्

पूर्वमिष्टादिकारिण एव चन्द्रलोकं गच्छन्तीत्युक्तम् । तदयुक्तम्, अनिष्टा दिकारिणोऽपि गच्छन्त्वित्याक्षेपसङ्गत्येदमाइ