पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥ 'अथैतयोः पथोर्न कतरेण च न तानीमानि क्षुद्राण्यसकृदावर्त्तीनि भूतानि भवन्ति' (छा. ५-१०-८) इत्यादावेतयोरिति पदस्यार्थः सूत्रे विद्याकर्मणोरितीति, कुतः, विद्याकर्मणोरेव देवयानपितृयाणात्मकमार्गद्वयसाधनत्वेन प्रकृतत्वात् प्रकृत- वाचकत्वमेतच्छब्दस्य युक्तमित्यर्थः । सूत्रे तुशब्देन 'चन्द्रमसमेव ते सर्वे ग- च्छन्ति' (कौ. १-२) इति श्रुतिप्रयुक्तशङ्कानिरासः तः सर्वस्य पुण्यपुरुषमात्रप- रत्वादिति भावः ॥ १७ ॥ ननु 'पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' (छा. ५-३-३) इति स- ङ्ख्यानियमेन देहप्राप्त्यभिधानात् तदर्थं पापिनां चन्द्रलोकगमनमङ्गीकर्तव्यमित्यत आह - न तृतीये तथोपलब्धेः ॥ १८ ॥ तृतीये मार्गे प्रविष्टानां पापिनां देहप्राप्त्यर्थमाहुतिसङ्ख्या नियमो नादर्त- व्यः, कुतः, तथोपलब्धेः । सङ्ख्यानियमं विनैव 'जायस्व म्रियस्वेत्येतत् तृतीयं स्थानम्' (छा. ५-१०-८) इति श्रुतौ तृतीये मार्गे देहप्राप्तेरुपलब्धेरित्यर्थः । इष्टादिकारिणामेवायं सङ्ख्यानियम इति भावः ॥ १८ ॥ स्मर्यतेऽपि च लोके ॥ १९ ॥ अपि च लोके भारैतादौ द्रोणधृ द्युम्नादीनामयोनिजत्वं स्मयते । तत्र द्रोणादीनां योषिदाहुतिरेका नास्ति । धृष्टद्युम्नादीनां योषित्पुरुषविष द्वे आहुती न स्त इति आहुतिसङ्ख्यानियमो नास्ति । एवमन्यत्रापति भावः ॥ १९ ॥ दर्शनाच ॥ २० ॥ किञ्च लोके जरायुजाण्डजस्वेदजोद्भिज्जेषु चतुर्विधदेहेषु स्वेदजोद्भिज्जयोः स्त्रीपुंसव्यक्तिसंयोगं विनैवोत्पत्तिदर्शनान्नाहुतिसङ्ख्यानियम इत्यर्थः ॥ २० ॥ ननु त्रीण्येव बीजानि भवन्ति 'आण्डजं जीवजमुद्भिज्जम्' (छा. ६-३-१) इति शरीरत्रैविध्यश्रवणात् कथं चातुर्विध्यमित्याह -- तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥ श्रुलौ 'आण्डजं जीवजमि'त्यत्र तृतीयशब्देनोद्भिज्जशब्देनावरोधः सङ्ग्रहः १. 'रते द्रो' खपुस्तके पाठः.