पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥ ११ ॥ ज्येतेत्यत आह - अकरणत्वान्न प्राणस्य विषयान्तरापेक्षादोषः, इन्द्रियान्तरेष्वसम्भावितासा- धारणदेहादिधारणाख्यव्यापारस्य निर्वाहकत्वात् । तथा हि 'प्राणस्यासाधारणव्या- पारं ' 'तान् वरिष्ठ: प्राण उवाच' 'एतद् बाणमवष्टभ्य विधारयामि' (प्र. २-३ ) इति श्रुतिर्दर्शयतीत्यर्थः ॥ ११ ॥ , न केवलं देहधारणमेवास्यासाधारणम् अपि त्वन्यदपीत्याह- पञ्चवृत्तिर्मनोवयपदिश्यते ॥ १२ ॥ यथा मनोऽनेकवृत्त्याख्यासाधारण व्यापरापेक्षयानेकधा व्यपदिश्यते । एवमु च्छ्वासनिश्वाससर्वशरीरक्रियोत्क्रान्त्याख्याश्चत्वारो व्यापाराः । भक्षितान्नादिरसानां समत्वेन सर्वाङ्गेषु नयनं पञ्चमो व्यापारः | तानपेक्ष्य पञ्चवृत्तिः प्राणो व्यपदिश्यते क्रमेण प्राणोऽपानो व्यान उदानस्समान इति । तदसाधारणव्यापारापेक्षया जीवो - पकरणत्वं मनोवदिति सिद्धम् ॥ १२ ॥

  • ६ श्रेष्ठाणुत्वाधिकरणम्

इत्थं मुख्यस्य प्राणस्योत्पत्तिं स्वरूपं चाभिधाय परिमाणमतिदेशेनाह- अणुश्च ॥ १३ ॥ प्राणस्यान्तरङ्गस्वरूपकथनानन्तरं बहिरङ्गपरिमाणमतिदिश्यत इत्यन्तरङ्ग- बहिरङ्गलक्षणा सङ्गतिः पूर्वेणास्य बोध्या । उत्क्रान्त्यादिश्रुतेः ‘सम एभिस्त्रिभिर्लोर्ले- कैः' (बृ. १-३-२२) इत्यादिप्राणविभुत्वश्रुतेश्च मिथो विरोधोऽस्ति न वेति सन्दे- हे अस्तीति पूर्वः पक्षः। सिद्धान्तस्तु चक्षुरादिवत् प्राणोऽप्यणुः परिच्छिन्नः सूक्ष्मश्च । ‘सम एभिरि'ति श्रुतिः स्थूलवायुपरा नाध्यात्मिकप्राणमात्रपरेत्यनयोर्न विरोध इति सिद्धम् ॥ १३ ॥

  • ७ ज्योतिराद्यधिकरणम्

प्राणस्याध्यात्माधिदैवत विभागेनाणुत्वविभुत्वनिरूपणप्रसङ्गेनाध्यात्मि- कानामिन्द्रियाणामाधिदैविकाद्यंधिष्ठितानां चेष्टामाचष्ट इति प्रसङ्गसङ्गत्येदमाह - ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ १४ ॥ १. 'ख्यप्राणस्य' ख. पाठः, २. 'यधिष्टानानाम् ' क. पाठः