द्वितीयाध्याये चतुर्थः पादः । इति मुख्यप्राणोत्पत्तिश्रुतेः 'आनदिबातम्' (ऋ सं. ८-७-१७) इति सृष्टेः । प्राङ्म- हाप्रलये प्राणसद्भावश्रुत्या विरोधोऽस्ति न वेति सन्देह अस्तीति पूर्वः पक्षः । सि- द्धान्तस्तु इन्द्रियवच्छेष्ठोऽपि प्राणो ब्रह्मणो जायते । अत 'आनीदवातमि'ति श्रुता- बानीच्छब्दः कारणसद्धावं दर्शयति । अवातं प्राणरहितमिति विशेषणान्न तया श्रुत्या प्राणोत्पत्तिश्रुतेर्विरोध इति सिद्धम् ॥ ८ ॥
- ५ वायुक्रियाधिकरणम्
उत्पत्तिचिन्तानन्तरमुत्पत्तिमतः प्राणस्य स्वरूपं चिन्त्यत इति प्रसङ्गसङ्ग- २ त्येदमाह - न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥ तत्र मुख्यप्राणः किं वायुरेव, उतेन्द्रियव्यापार आहोस्विद् वायुविशेष इति सन्देहे 'यः प्राणः स वायुः' इति 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' (मु. २-१-३) इति प्राणभेदाभेदश्रुत्योरुभयोर्विरोधे मुख्यार्थत्वासम्भवेन स्तोक- कल्पनानुरोधाद् भेदश्रुतेर्गौणत्वे वायुरेव प्राण इत्येकः पूर्वः पक्षः । भेदश्रुत्यवष्ट- म्भेऽपि धर्मिभेदाद् धर्मभेदो लघीयानिति न्यायेन सर्वेन्द्रियव्यापार एव प्राण इत्यपरः पूर्वः पक्षः । सिद्धान्तस्तु न वायुक्रिये, मुख्यमाणो न वायुर्नापि क्रियेन्द्रिय- व्यापारः, किन्तु वायुविशेष एव, कुतः, 'स वायुना ज्योतिषा' (छा. ३-१-८४) इति पृथगुपदेशान् । तथा ‘एतस्माज्जायते प्राण' इत्यादिना करणेभ्यः पृथगुपदेशात् । न हीन्द्रियव्यापारस्यैव सत इन्द्रियेभ्यः पृथगुपदेशो युज्यते । तस्माद्वायुविशेषोऽय- मध्यात्मभावापन्नः पञ्चवृत्तिः प्राणः । ततश्च न श्रुत्योर्विरोध इति सिद्धम् ॥ ९ ॥ इन्द्रियव्यापारः प्राणो न चेत्, तर्हि तस्येन्द्रियवत् करणत्वानङ्गीकाराज्जी- ववत् स्वातन्त्र्यं स्यादित्यत आइ- चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ १० ॥ तुरुक्तशङ्कानिरासार्थः । न जीववत् प्राणः स्वतन्त्रः किन्तु चक्षुरादिवज्जीवं प्रति करणभूतः, कुतः, तत्सहशिक्षादिभ्यस्तैश्चक्षुरादिभिः सह प्राणसंवादादिषु प्राणस्य शिष्टे: शासनात्, सजातीयानामेव सहशासनस्य युक्तत्वात् । अचेतन त्वभौतिकत्वादिहेतुसङ्ग्रह आदिशब्दार्थः ॥ १० ॥ ननु प्राणस्य जीवोपकरणत्वं चेत्, तर्हि विषयान्तरं स्वरूपान्तरवत् प्रस-