पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्याये चतुर्थः पादः । अत्र 'आदित्यश्चक्षुर्भूत्वा' (ऐ. २-४) इत्यादीन्द्रियाणां देवताधीनचेष्टावत्त्व- श्रुतेः, 'चक्षुषा हि रूपाणि पश्यति' (बृ. ३.९-२०) इति श्रुत्या विरोधोऽस्ति न वेत सन्देहे अस्तीति पूर्वः पक्षः । सिद्धान्तस्तु ज्योतिरादिभिरादित्यादिदेवताभिरधिष्ठीयते प्रेर्यत इत्यधिष्ठानमधिष्ठितमेव वागादिकं चेष्टते । कुतः, तदामननात् तस्य देवता- धिष्ठितत्वस्य ‘आदित्यश्चक्षुरि' त्यादिश्रुत्याभिधानात् 'चक्षुषा ही'ति श्रुतौ तु देव- ताधिष्ठितत्वानिषेधान्न तयैतस्या विरोध इति सिद्धम् ॥ १४ ॥ ननु देवतानामेवाधिष्ठातृत्वं चेत्, तर्हि भोक्तृत्वं प्रसज्येतेत्यत आह - प्राणवता शब्दात् ॥ १५ ॥ प्राणवता जीवेनेन्द्रियाणां स्वस्वामिभावः सम्बन्धः । ततश्चेन्द्रियसाध्यभोग- भागित्वं जीवम्यैव न देवतानां, कुतः, शब्दात् 'स चाक्षुषः पुरुषो दर्शनाय चक्षुः ' (छा. ८-१२-४) इत्यादिश्रुतेरित्यर्थः ॥ १५ किञ्च - तस्य च नित्यत्वात् ॥ १६ ॥ तस्य जीवस्य स्वधर्मार्जिते काये कर्तृत्वेन च भोक्तृत्वेन च नित्यत्वान्न देवतानां भोक्तृत्वमस्मिञ्छरीर इत्यविरोध इति सिद्धम् ॥ १६ ॥

  • ८ इन्द्रियाधिकरणम् ॐ

ननु सत्स्विन्द्रियेषु तदधिष्ठातृदेवताचिन्ता । तान्येव प्राणव्यापारव्यति- रेकेण न सन्तीत्याक्षेपसङ्गत्येदमाह - त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठशत् ॥ १७ ॥ अत्र 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि' (मु. २-१-३) इति मुख्य- प्राणादीन्द्रियाणां तत्त्वान्तरत्वश्रुतेः 'त एतस्यैव सर्वे रूपमभवन्' (बृ. १-५-२१) इति प्राणात्मकत्वश्रुत्या विरोधोऽस्ति न वेति सन्देहे अस्तीति पूर्वः पक्षः । सिद्धा- न्तस्तु श्रेष्ठान्मुख्यप्राणादन्यत्राप्येते प्रकृता वागादय इन्द्रियाणीत्युच्यन्ते न प्राणाः, कुतः, 'एतस्माज्जायत' इत्यादौ तस्य भेदस्य व्यपदेशादिन्द्रियाणां प्राणात्मकत्व- श्रुतेर्गौणत्वेन न तया विरोधः ॥ १७ ॥ किश्च - १. 'नैवेन्द्रि' खपुस्तके पाठ;. -