सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७४ वृहन्नीलतन्त्रम् । तत्संपुटं भवेत् तत्तु कीलकं परिभाषितम् । स्तम्भे मृत्युजये द्विष्टौ रक्षणादिषु संपुटः ॥ १७६ ।। द्वे द्वे मन्त्राक्षरे यत्र एकैकं साध्यनामकम् । विदर्भ एष विज्ञेयो मुनिभिस्तत्रवेदिभिः ॥ १७७ ॥ वह्निकार्ये जपेत् स्वाहा नमः सर्वत्र चार्चने । शान्तिपुष्टिवशद्वेषमारणोच्चाटने तथा ॥ १७८ ॥ सुधा स्वाहा वषट् हुं च वौषट् फट क्रमान् न्यसेत् । पद्मासनं महादेवि पौष्टिके समुदाहृतम् ॥ १७६ ॥ वश्ये चैव महेशानि तथा च शान्तिके शिवे । आसनं स्वस्तिकं प्रोक्तं साक्षात् सिद्धिकरं तथा ॥ १८० ॥ आकृष्टौ च महेशानि कम्बलं समुदाहृतम् । वीरासनं महेशानि विद्वेषे समुदाहृतम् ॥ १८१॥ उच्चाटने मारणे च वीरासनं प्रशस्यते । शान्तिपौष्टिकवश्ये च सुन्दरी शोभनाशया ॥ १८२॥ सर्वाभरणसंदीप्ता प्राप्तकाममनोरथा । ध्यातव्या देवता सम्यक् सुप्रसन्नाननाम्बुजा ॥ १८३ ॥ . आकर्षणे च तद्वत् स्यात् उच्चाटने प्रशस्यते । साध्य आकर्षणे द्वेष प्रथितं तत्रवेदिभिः ॥ १८४ ॥ वर्जमानजनैर्दान्तैर्ग्रथितस्तक्षकेण च । उकारवयसाविष्टौ यक्ष उच्चाटने तथा ॥ १८५ ॥ शिलयाक्रान्तितस्तत्त्वं तृणपानादिषु स्मरेत् (१) । इदानीं शृणु चार्वाङ्गि तिथीनां नियमं शुभे ॥ १८६ ।। पञ्चमी च द्वितीया च तृतीया सप्तमी तथा । बुधेज्यवारसंयुक्ता शान्तिकर्मणि पूजिता ॥ १७ ॥