सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः पटलः । ७३ शिशिरे स्तम्भनं प्रोक्तं विद्वेषे ग्रीष्म ईरितः । प्रावृडुच्चाटने शस्ता शरन्मारणकर्मणि ॥ १६४ ॥ वश्ये चाकर्षणे चैव रक्तवर्णं विभावयेत् । निर्विषीकरणे शान्तौ पुष्टौ चाप्यायने सितम् ॥ १६५ ।। पीतं स्तम्भनकार्येषु धूम्रमुच्चाटने भवेत् । उन्मादे शक्रगोपाभं कृष्णवर्णाभकं मृतौ ॥ १६६ ॥ उत्थितं मारणे ध्येयं सुप्तमुच्चाटने स्मृतम् । उपविष्टं सुरेशानि वश्यादौ परिचिन्तयेत् ॥ १६७ ॥ आसीनं श्वेतवर्णं तु ज्ञेयं तु शान्ति(सात्वि)के शिवे । वामपार्श्वस्थितं कृष्णं तामसं परिकीर्तितम् ॥ १६८ ॥ सात्त्विकं मोक्षकामानां राजसं राज्यमिच्छताम् । तामसं शत्रुनाशार्थं सर्वव्याधिनिवारकम् ॥ १६६ ।। मारणे विषसंहारे भूतग्रहनिवारणे । उच्चाटने च विद्वेषे पञ्चवर्णं प्रयुज्यते ॥ १७० ॥ मन्त्रान्ते नामसंस्थानं योग इत्यभिधीयते । शान्तिके पौष्टिके वश्ये प्रायश्चित्तविशोधने ॥ १७१ ॥ मोहने दीपने योगं प्रयुञ्जन्ति मनीषिणः । स्तम्भनोच्चाटनोच्छेदविद्वेषेषु स चोच्यते ॥ १७२ ॥ नाम्न आद्यन्तमध्ये च मन्त्रसांमुख्य उच्यते । मन्त्राभिमुख्यकरणे सर्वपापप्रणाशने ॥ १७३ ।। ज्वर एष विषकृत्याशान्तिके स च उच्यते । संमीलने स एवाथ मन्त्राणामक्षराणि च ।। १७४ ।। एकैकान्तरितं मन्त्रग्रथनं तत् प्रकीर्तितम् । यच्छान्तिके विधातव्यं नामाद्यन्ते यदा मनुः ॥ १७५ ॥