७२ बृहन्नीलतन्त्रम् । इदानीं कथयिष्यामि काम्यानुष्ठानमुत्तमम् । येनैव महता देवि सर्वविद्यामयो भवेत् ॥ १५२ ॥ होमतर्पणपूजा च भावना जप एव च । मन्त्रस्य साधनं चैव मारणोच्चाटने तथा ॥ १५३ ॥ एतानि काम्यकर्माणि कुरुते साधकः सदा । अर्धरात्रे शरत्कालो हेमन्तः स्यात् प्रभातके ॥ १५४ ॥ पूर्वाह्ने च वसन्तः स्यात् मध्याह्ने ग्रीष्म एव च । प्रावृट्कालोऽपराह्ने स्यात् प्रदोषः शिशिरः स्मृतः ॥ १५५ ।। उपायोगे च हेमन्तः प्रभाते शिशिरागमः । प्रहरार्धे वसन्तश्च ग्रीष्मो मध्यन्दिनान्तरे ॥ १५६ ।। तुर्ययामे च वर्षाख्या शरदस्तंगते रवौ । एतत्ते कथितं सुभ्रु कालानां नियमं शृणु ॥ १५७ ॥ एवं ज्ञात्वा महेशानि सर्वकर्माणि कारयेत् । शान्तिं पुष्टिं तथा वश्यमाकर्षोच्चाटनादिकम् ॥ १५८ ॥ षट्कर्माणि प्रयुक्तानि निग्रहो मारणं तथा । रोगकृत्याक्षयादीनां निरासः शान्तिरीरिता ।। १५६ ।। पुष्टिर्धनजनादीनां वश्यादीनां च कथ्यते । जनसंवननं चैवाकर्षणमात्मना कृतम् ॥ १६० । उच्चाटनादिकरणं निग्रहः परिकीर्तितः । जनानां प्राणहरणं मारणं परिकीर्तितम् ॥ १६१ ।। सूर्यादयं समारभ्य घटिकादशकं क्रमात् । ऋतवः स्युर्वसन्ताद्याश्चाहोरात्रं दिने दिने ॥ १६२ ॥ वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः । हेमन्तो शान्तिके प्रोक्तो वसन्तो वश्यकर्मणि ॥ १६३ ॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/९७
दिखावट