सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्टः पटलः । ७१ अतिप्रियत्वात् कथितो न प्रकाश्यं वरानने । गुप्तबीजमिदं काल्याः सर्वतन्त्रेषु गोपितम् ॥ १४०॥ वश्यादि च महेशानि अनेन जायतेचिरात् । अष्टोत्तरशतेनापि मूलाधारबहिष्क्रियाम् ॥ १४१ ।। कर्तुं च शक्यते देवि सिद्धो भवति तत्क्षणात् । कलौ काली तथा तारा चान्नपूर्णा च सुन्दरी ॥ १४२ ।। एतासां सिद्धविद्यानां श्रीमन्त्रग्रहणादपि । शिवत्वं जायते सुभ्रु संशयो नास्ति कश्चन ॥ १४३ ।। शीघ्रं सिद्ध्यन्ति मन्त्राश्च सत्यं सत्यं महेश्वरि । माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्दशी ॥ १४४ तस्यां संपूजयेत् तारां महाविभवविस्तरैः । चक्रवर्ती महाराजा भवत्येव न संशयः ॥ १४५ ॥ मार्गे मासि सिते पक्षे सप्तमी रविवल्लभा । अन्नदां पूजयेद् भक्त्या पुत्रपौत्रसमन्वितः ॥ १४६ ॥ लक्ष्मीः स्थिरायतेऽवश्यं यावच्च सचराचरम् । तावत्तस्य गृहे लक्ष्मीर्वैकृत्यं परिवर्ज्य च ॥ १४७ ।। निश्चला च भवेद् देवि सत्यं सत्यं गणेश्वरि । पूजा चास्या महेशानि कथिता तव सन्निधौ ॥ १४८ ॥ अन्नदाकल्पके सम्यग् जानीहि गणसुन्दरि । कार्तिके शुक्लपक्षस्य नवमी या सिता भवेत् ॥ १४६ ।। तस्यां पूज्या महेशानि सुन्दरी परदेवता । सुन्दर्याः पटले सम्यक् पूजा च कथिता शुभे ॥ १५० ॥ इति ते कथितं किञ्चित् नैमित्तं परमं शुभम् । अन्यद् वक्ष्यामि देवेशि जायन्ते च निरापदः ॥ १५१ ॥