सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्टः पटलः । ७५ सप्तमी पौष्टिके शस्ता अष्टमी नवमी तथा । दशम्येकादशी चैव भानुशुक्रादिसंयुता ॥ १८८ ॥ आकर्षणेऽप्यमावास्या नवमी प्रतिपत्तथा । पौर्णमासी मन्दभानुयुक्ता विद्वेषकर्मणि ॥ १८६ ॥ कृष्णा चतुर्दशी तद्वदष्टमी मन्दवारका । उच्चाटने तिथिः शस्ता प्रदोषे च विशेषतः ॥ १० ॥ चतुर्दश्यष्टमी कृष्णा अमावास्या तथैव च । मन्दसौरदिनोपेता शस्ता मारणकर्मणि ॥ १६१ ॥ बुधचन्द्रदिनोपेता पञ्चमी दशमी तथा । पौर्णमासी च विज्ञेया तिथिः स्तम्भनकर्मणि ॥ ११२ ।। शुभग्रहोदये कुर्यादशुभा अशुभोदये । रौद्रकर्माणि रिक्तार्के मृत्युयोगे च मारणम् ॥ १३ ॥ होमतर्पणपूजा च भावना जप एव च । मन्त्रस्य धारणा चैव मारणोत्सादने तथा ॥ १६४ ।। एतानि काम्यकर्माणि प्रयोगऽन्यत् समर्चयेत् । अथान्यत् संप्रवक्ष्यामि वशीकरणमुत्तमम् ॥ १६५ ॥ येन विज्ञातमात्रेण मन्त्राः सिद्ध्यन्ति तत्क्षणात् । प्रतिमां कारयेद् देवि पलेन रजतस्य च ॥ १६६ ।। पलार्धेन महेशानि साध्यस्य प्रतिमां शिवे । हरितालं पलार्धं च हरिद्राचूर्णकं तथा ॥ १६७ ।। गर्त कृत्वा सार्धहस्तं तत्र निक्षिप्य सुन्दरि । रक्तासनं तत्र दत्त्वा वसेत् तद्तमानसः ॥ १६८ । चतुर्दिक्षु महेशानि पताकां विनिवेशयेत् । रक्तासने चोपविश्य पूर्वास्यो जपमाचरेत् ॥ १९ ॥