सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७६ बृहन्नीलतन्त्रम् । पूजाया नियमं देवि जानीहि नगनन्दिनि । तिलपूर्णं घटं तत्र स्थापयेत् देवि देशिकः ॥ २०० ॥ ताम्रपात्रं ततो न्यस्य प्रतिष्ठामाचरेत् ततः । प्राणप्रतिष्ठामन्त्रेण प्राणान् संस्थापयेद् बुधः ॥ २०१ ॥ अधः कृत्वा पूजयित्वा प्रवालमालया जपेत् । दशसाहस्रजप्येन प्रयोगार्हो भवेत् ततः ।। २०२ ॥ प्रणवं पूर्वमुच्चार्य मायाबीजं द्वितीयकम् । कान्तं च लाकिनीयुक्तं वामकर्णेन्दुभूषितम् ॥ २०३ ॥ ततो रक्तपदं ब्रूयाच्चामुण्डे तदनन्तरम् । साध्यनाम ततो न्यस्य वशमानय तत्परम् ॥ २०४ ॥ वह्निजायावधिर्मन्त्रो जपेद् दशसहस्रकम् । दशांशादिप्रमाणेन होमादींश्च समाचरेत् ॥ २०५ ॥ प्रातः स्नात्वा शुचिर्भूत्वा हविष्याशी जितेन्द्रियः । प्रातः कालं समारभ्य जपेद् मध्यन्दिनावधि ॥ २०६ ॥ जपे समाप्ते देवेशि हुनेद् दिने दिने शुभे । जातीकुसुमहोमेन वशयेन्नात्र संशयः ॥ २०७ ।। कर्पूरमिश्रितैस्तोयैस्तर्पयेत् परदेवताम् । पूर्वं प्रणवमुद्धृत्य चामुण्डां प्रवदेत् ततः ॥ २०८ ॥ तर्पयाम्यग्निजायान्तं मन्त्रं जानीहि भैरवि । अनेनैव विधानेन सन्तर्प्य परदेवताम् ।। २०६ ।। सिद्धिप्रयोगो देवेशि जायते नात्र संशयः । अभिषेकं ततः कुर्याद् भैरवि प्राणवल्लभे ॥ २१० ॥ प्रणवं च महेशानि चामुण्डां तदनन्तरम् । अभिषिञ्चामि तत्पश्चात् हृदन्तेनाभिषेचयेत् ॥ २११ ॥