सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः पटलः । ७७ . तददशांशेन देवेशि ब्राह्मणान् भोजयेत् तदा । एवं कृते महेशानि वशीकरणमुत्तमम् ।। २१२ ।। जायते नात्र संदेहः सत्यं सुरगणार्चिते । कामतुल्यश्च नारीणां रिपूणां शमनोपमः ॥ २१३ ।। यावज्जीवितपर्यन्तं स्मरबाण इवेश्वरि । जायते नात्र संदेहः सत्यं सुरगणार्चिते ॥ २१४ ॥ श्वेतापराजितामूलं पेषयेद् रोचनायुतम् । शतेन मन्त्रितं कृत्वा तिलकं कारयेत् ततः ॥ २१५ ।। वशयेद् नात्र सन्देहः सत्यं सत्यं महेश्वरि । चन्द्रसूर्यौ यदि वृथा तदा निष्फलभाग् भवेत् ॥ २१६ ॥ रक्तवस्त्रेण चामुण्डां तोषयेद् बहुयत्नतः । सुवर्णदक्षिणा देया वित्तानुसारतः प्रिये ॥ २१७ ॥ आद्यन्ते महतीं पूजां कुर्यात् तस्य वरानने । पञ्चदिनप्रयोगेण राजानं वशमानयेत् ॥ २१८ ॥ तव प्रीत्यै महादेवि कथितं भुवि दुर्लभम् । विद्वेषणं विशेषेण शृणुष्वैकमनाः प्रिये ॥ २१६ ।। करञ्जकविषेणैव तथा धत्तूरकेण च । काकोलूकौ सदा लेख्यौ भूर्जपत्रे महेश्वरि ॥ २२० ॥ र साध्यानां नामसहितं मन्त्रं संलिख्य साधकः । एतयोर्यादृशं वैरं तादृशं चामुकयोर्भवेत् ॥ २२१ ॥ वह्निजायावधिर्मत्रः सर्वविद्वेषकारकः । महाकाली देवता च पूजा तस्याः शुभप्रदा ॥ २२२ ॥ एवं सहस्रमानेन जपं कुर्याच्छुचिस्मिते । मारणं सविशेषं च शृणुष्वैकमनाः प्रिये ॥ २२३ ॥