सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । निहत्य कृष्णमार्जारं मस्तकं तत्र तं नयेत् । सिन्दूरेण समायुक्तं कुर्यात् साधकसत्तमः ॥ २२४ ॥ तज्जिह्वायां महादेवि साध्यनाम लिखेच्छिवे । साध्यनाम लिखित्वा तु कालीमन्त्रं जपेन्मुदा ॥ २२५ ॥ निजबीजेन घटितमक्षरं प्रजपेत् ततः । दशसाहस्रजापेन मारयदरिमग्रतः ॥ २२६ ॥ श्मशानकालिकां तत्र चावाह्य पूजयेच्छुभे । लौहालङ्कारसंयुक्तं वस्त्रं देव्यै प्रदापयेत् ॥ २२७ ।। दक्षिणास्यो जपेद् मन्त्रं ततः सिद्धो भवेन्मनुः । अन्नं पक्त्वा महादेवि निर्जनं दापयेत् प्रिये ॥ २२८ ॥ अर्धरात्रे बलिं दत्त्वा खनेद् वैरिगृहे यदि । सप्ताहमध्ये देवेशि शत्रुर्याति यमालयम् ॥ २२६ ॥ इति ते कथितं देवि सारात् सारतरं मतम् । तव स्नेहाद्वरारोहे प्रकाशितमिदं पुरः ॥ २३० ॥ शान्तिकं शृणु सर्वज्ञे येन जीवति साधकः । उर्वशी प्रथमं नीत्वा युगान्तकारकं परम् ।। २३१ ।। स्तनद्वयेन संयुक्ता धूमिनी-त्रितयं ततः । अस्य मन्त्रस्य देवेशि सहस्राष्टप्रमाणतः ॥ २३२ ॥ जपं कुर्याद् महेशानि अन्नपूर्णा च देवता । पूजयेद् विविधर्भक्ष्यैर्नानारससमन्वितैः ॥ २३३ ॥ चर्व्यं चोष्यं तथा लेह्यं द्रव्यं दद्यान्मनोहरम् । दशांशादिप्रमाणेन होमादींश्च समाचरेत् ॥ २३४ ।। पद्मपुष्पस्य होमेन शान्तिर्भवति सुन्दरि । मधुना तर्पयेद् देवीमन्नपूर्णा परां गतिम् ॥ २३५ ॥