सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः पटलः । ७३ प्रथमेऽहनि देवेशि जलेन पूरयेद् घटम् । तद्घटे पूजयेद् देवी पूज्यावाह्य सुरेश्वरीम् ॥ २३६ ॥ मन्त्रेणानेन देवेशि यदि कुर्यात् प्रयोगकम् । सर्वव्याधिर्विनश्येत नात्र कार्या विचारणा ॥ २३७ ॥ रहस्यं शृणु देवेशि 'येन सत्य युगं?पुरं)व्रजेत् । साधनादि महेशानि बहुधा कथितं मया ॥ २३८ पुनः केन प्रकारेण ज्योतीरूपां विलोकयेत् । तन्मे शृणु वरारोहे कृपया परमेश्वरि ॥ २३६ ॥ शृणु साध्वि महाभागे सर्वज्ञानान्तरस्थितम् । वैष्णवे गाणपत्ये च शैवे वा शाम्भवेऽपि वा ॥ २४० ॥ योगे संन्यासधर्मे वा कौलो धर्मः प्रशस्यते । कुलीनधर्ममाश्रित्य जपेद् रात्रिन्दिवं शिवे ॥ २४१ ।। नद्यादौ विजने शून्ये गेहे बिल्वतले तटे । लतासंवेष्टितस्थाने शुद्धभावेन तां भजेत् ॥ २४२ ॥ श्मशाने निर्जने वापि सदा तिष्ठति सुन्दरी । विकाररहिताश्चेत् त्वां भजन्ते सिद्धिकामिनः ॥ २४३ ॥ तदा त्वं साधकानां च भविता दृष्टिगोचरा । साधनं च प्रवक्ष्यामि कथितं यत् तपोधने ॥ २४४ ॥ यतिभावेन वा देवि राजभावेन वा शिवे । अभेददर्शी संभूय त्वां प्रपश्यति साधकः ॥ २४५ ।। तीर्थपूर्णं नवघटं कुजवारेऽष्टमी यदि । निधाय तत्र विधिवत् पूजां कृत्वा विधानतः ॥ २४६ ॥ विषिच्य वेदिकां तत्र तस्योपरि शुभासनम् । आस्तीर्य निवसेत् तत्र ज्योतिर्मन्त्रपुरःसरम् ॥ २४७ ॥ १ 'येन प्रत्यक्षतांव्रजेत् ' इति पाठान्तरम् ।