८० बृहन्नीलतन्त्रम् । फूत्कारेण चतुर्दिक्षु तन्मन्त्रमुच्चरन् धिया । ध्यायेच्च सततं देवि तव रूपं प्रयत्नतः ॥ २४८ ॥ द्विभुजां सुन्दरीं श्यामां नानारत्नविभूषिताम् । रक्तवस्त्रां स्मितमुखी मातृवत् परिपालिनीम् ॥ २४६ ॥ भैरवी घोररूपां त्वां तदा जानाति भैरवि । नासारन्ध्रोपरि ध्यायेत् तव तेजः स्वचक्षुषा ॥ २५० ॥ कूर्चमध्येऽथवा पश्येत् तव ज्योतिरनामयम् । चन्द्रकोटिप्रभं शीतं रविकोटिसमं खरम् ।। २५१ ।। उत्तुङ्गे च महाकालं स्वप्रकाशाचलं गुरुम् । धीरेण चेतसा धार्य काले काले विधानतः ।। २५२ ।। शून्यालये प्राङ्गणे वा वीथिकापालिकासु च । शृङ्गाट-हट्ट-शालेषु यथारुचि करोत्विति ॥ २५३ ।। किन्तु देवि विना हेतुं चेतः कस्मात् प्रसीदति । अन्तःशुद्धिमनःशुद्धिर्हेतुशून्या कथं भवेत् ॥ २५४ ।। नाचारे हरति प्रीतिर्विगीते नास्ति मे रुचिः । ततो हेतुं समाधाय सुगोप्यं जपमाचरेत् ॥ २५५ ।। सुरा हेतुः कारणं च परमामृतमेव च । ज्ञानदा शुभदा तीर्थ मदिरा मोदिनी सती ॥ २५६ ॥ शुण्डा प्रबहुकुल्याङ्गा पावनी तारिणीति च । तव नामानि गोप्यानि जानीहि कुलभैरवि ॥ २५७ ।। तत्स्वरूपां मदोन्मत्तां मदिरां शङ्खभूषणाम् । ध्यायेत् प्रतिमुखी स्मेरस्वप(सुद)ती शुभदा शुभाम् ।। २५८ ।। न च मे त्वापभाषेथा सदा शान्तन चेतसा । भिक्षुत्वं राजता वापि तवाश्रया युगे युगे ।। २५६ ।।
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१०५
दिखावट