सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः पटलः । ८१ हेतुशून्या क्रिया नष्टा नान्तःशुद्धिर्नवा सुखम् । देहं व्यर्थ विजानीहि देवि त्वत्साधनं विना ॥ २६० ॥ साधनं हि वृथा देवि हेतुवादं तथा शृणु । भैरवैर्हेतुपतिभिर्मार्गैः सेव्यं च शङ्करि ॥ २६१ ॥ मिलित्वा पर्वतेरण्ये यो वै संयमितात्मना । एकाकी नैव मद्यान्नं स्त्रीभिः (१) स्तोत्रं सुवर्णितम् ॥ २६२ ॥ पञ्चभिर्दशभिर्वापि जापकस्य सुसंयुतम् । समभावे जपेद् देवि नियतं द्वित्रिकैः सह ।। २६३ ॥ किञ्चिद्ध्यानेन तत्सर्व न द्विधा किश्चिदीरितम् । स्मृत्वा ततं ब्रह्ममयं भ्रान्तिरत्र न जायते ॥ २६४ ॥ स्वीकृत्य त्वमपि ध्यायेस्तदा द्रक्ष्यसि सुन्दरि । या एवं ध्यात्वा महेशानि प्रसन्नं यदि मे मनः ॥ २६५ ।। शोधनं संप्रवक्ष्यामि ज्ञानात् सार्वग्यदायकम् । घटं पुरो निधायादौ त्रिर्जपन् मूलमुच्चरेत् ॥ २६६ ॥ योनिमुद्रां प्रदर्श्याथ शुभमेनमुदीरयेत् । नमस्ते ज्ञानदे शुद्धे शुद्धिभावविनिश्चिते ।। २६७ ॥ ज्योतीरूपे ध्वान्तहरे वरदेऽमृतरूपिणि । अविद्यान्तरसंस्थाने महापातकनाशिनि ॥ २६८ ॥ सर्वपुण्यप्रसवने सर्वदामृतमानसे । नमस्तुभ्यं नमस्तुभ्यं प्रसीद परमेश्वरि ॥ २६६ ॥ ऋद्धिं देहि मनः शुद्धिं(देहि दुद्रुव(?)ते नमः । चराचरधृते पुण्ये धृतिदे धृतिनाशिनि ॥ २७० ।। सुरासुरनरैः सेव्ये व्यामोहं हर मेऽनघे । अरुणाक्षि विशालाक्षि विलक्षे साक्षिणि स्वयम् ॥ २७१ ॥