सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२ बृहन्नीलतन्त्रम् । दिव्यशङ्खपरीधाने सुलज्जे प्रीयतां मयि । तमःसंचयनाशिन्यै शिवारूपधृते परे ॥ २७२ ॥ नमस्ते कुलधर्मायै कालिकायै हवे वले । ऐं स्त्री हृंह्रीं दिव्यरूपे महामाये महेश्वरि ।। २७३ ॥ ह्रींकारात् सिद्धिमाप्नोति बुद्धिं देहि यशस्विनि । अमृतत्वं प्रयाह्यत्र निधेहि सिद्धिमुत्तमाम् ॥ २७४ ॥ अपारेऽसारसंसारे तारे कामदुघेऽनघे । .. सर्वदेवगणप्रीतेऽपरिमेयगुणाश्रये ।। २७५ ॥ ब्रह्मानन्दपरानन्दे नमस्तेऽस्तु पुनः पुनः । चक्षुर्ध्वान्तं मनोध्वान्तं छिन्धि देवि सुरेश्वरि । २७६ ॥ कुलाचारप्रसन्ना त्वं पुनीहि ब्रह्मवादिनि । सत्यानन्दमयि श्रीदे कमले शूलधारिणि ॥ २७७ ॥ पूतक्रतो विश्वसेव्ये प्रसूतिमुनिमानसे । नमो नित्यं जयायै ते परायै ते नमाम्यहम् ॥ २७८ ॥ शुद्धाचाररते गोप्ये पशूनां गणकण्ठके । यथा ध्वान्ताद्विमुच्येऽहं तथा कुरु सुरार्चिते ॥ २७६ ।। एवं स्तुत्वा महादेवि मूलेनैव विशोधयेत् । ऑं एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् ॥ कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् ॥ २८० ॥ ऑ सूर्यमण्डलसंभृते वरुणालयसंभवे । अमाबीजमये देवि शुक्रशापाद्विमुच्यताम् ॥ २८१ ।। ऑं वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि । तेन सत्येन देवेशि ब्रह्महत्यां व्यपोहतु ।। २८२ ।। ततस्तां पुरतः कृत्वा यथोक्तं जपमाचरेत् । दिने दिने महादेवि यदि पूजां करोति हि ॥ २८३ ॥