सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः पटलः । 53 अवश्यमेव तद्रूपं जानीयात् साधकोत्तमः । शवानां साधनं देवि बहुधा कथितं मया ॥ २८४ ॥ वीरभावेन तद् देवि हेतुहीनं वृथागतम् । इदानीं शवरूपेण ध्यायेत् त्वां सततं शिवे ॥ २८५ ॥ तदा क्रीडति(सि) मूर्त्या च शवोपरि त्रपान्विता । ततो नित्यानुरागेण यद्भावाय प्रकल्पसे || २८६ ॥ महानिशायां ब्राम्ये वा मुहूर्ते ध्यानतत्परः । त्वद्रूपं परमानन्दं तदा पश्यति निश्चितम् ॥ २८७ ॥ रात्रिपूजा-जपध्यानैर्बहुशो हेतुभावितैः । प्रसन्ना त्वं तदा देवि ततस्तत्र दृढा भवेत् ॥ २८८ ॥ सतीं दृष्ट्वा नमस्कुर्यात् स्पृष्ट्वा तां च शुचिर्भवेत् । - पीत्वा च परमानन्दं लभते प्राणनिर्वृतिम् ॥ २८६ ॥ मोदिनीपूरितघटं बिल्वशाखादिशोभितम् । निधाय पुरतो मन्त्रैः पूजां कृत्वा विधानतः ॥ २६० ॥ धूपैर्दीपैश्च नैवेद्यर्बलिभिश्चैव शुद्धिभिः । द्वाविंशतिशतं नित्यं जप्तव्यं वेदिकोपरि ॥ २६१ ॥ यथाशक्त्याथवा जप्यं लक्षमेकं सुसंयतम् । तस्मादुत्थाय विधिवत् तिलाज्यैः श्रीफलैर्हुनेत् ॥ २६२ ॥ तत्तया सुरया देवि तर्पयच्च विधानतः । सन्तुष्टे मण्डले देवि संतुष्टा सिद्धिदा तदा ॥ २६३ ॥ निर्विघ्नं जायते तत्र निःशङ्कं निरुपद्रवम् । निःशोकं निर्विकारं च परं चेतः प्रसीदति ॥ २६४ ॥ नैवेद्यं तु नमस्कुर्यात् त्वबुद्ध्या स्वीकरिष्यति । भ्रमबुद्धिर्न कर्तव्या मनसापि कदाचन ॥ २६५ ॥