सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८४ बृहन्नीलतन्त्रम् । तन्नैवेद्यं चेतसापि यदि निन्दति कश्चन । तदा तं चर्वयेत् काली निर्मूलं जायतेऽथवा ॥ २६६ ॥ तस्माद् दृष्ट्वा च श्रुत्वा च नच निन्दायते क्वचित् । नरमार्जारमहिष-च्छागलैर्मेषकैस्तथा ॥ २६७ ॥ कपोतकलविङ्काद्यैर्हंसमद्गुर-कुक्कुटैः । शालसजालशकुल-रोहितादिभिरएडजैः ॥ २६८।। बलिभिर्विविधैश्चान्यैः फलैश्च मधुराप्लुतैः । सिक्नसंपक्कदग्धैश्च वित्वचैरिक्षुयष्टिभिः ॥ २६६ ।। तारिणीं पुरतः कृत्वा शुद्धचित्तेन देशिकः । स्त्रीणां मनो न हन्तव्यं स्त्रियश्चास्य विशेषतः ॥ ३०० ॥ शक्तिरूपा हि त्वद्व्य(क्ता?क्तिः)यतः सर्वत्र शोभने । पशुशक्तिः पक्षिशक्तिर्नरशक्तिश्च शोभने ॥ ३०१ ॥ विगुणं पूजिता कर्म सगुणं जायते सदा । तासां पूजा विधानेन कर्तव्या भक्तितः शुभे । ३०२ ॥ कौलिनी सुभगां शक्तिं पुष्पेणापि न ताडयेत् । यदि शक्तिर्भवेत् तुष्टा तुष्टां जानीहि तां शिवे ॥ ३०३ ।। नित्यपूजाविधानेन जपहोमपरायणम् । कुलसङ्गं समाश्रित्य पुरश्चरणमाचरेत् ॥ ३०४ ।। क्षेमकरी जम्बुकीं च काकोलं गृध्रमुत्तमम् । दृष्ट्वा वैषां रुतं श्रुत्वा प्रणमेत् मन्त्रपूर्वकम् ॥ ३०५ ॥ जपकाले महेशानि यद्येषां श्रूयते रवः । तदैव सिद्धिं जानीहि न जपेत स्तोत्रमाचरेत् ।। ३०६ ।। बलिना मुण्डमालाभिर्गृहं कृत्वा जपं चरेत् । कृशोदरि महाचण्डे मुक्तकेशि बलिप्रिये ॥ ३०७ ।।