सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६८ बृहन्नीलतन्त्रम् । डाकिन्यश्च महादेवि त्वदंशाः सर्वतो दिशः । लब्धसिद्धिसमायोगो डाकिनीदर्शनं यदि ॥ १०५ ॥ अथवा दानवानां च मद्भक्तानां विशेषतः । वटुकानां देवतानां तस्य सिद्धिश्च जायते ॥ १०६ ॥ परयोषां समालोक्य षोडशाब्दां मनोहराम् । रक्तवस्त्रां मृगाक्षीं च प्रणम्य च मनुं जपेत् ॥ १०७ ॥ अष्टोत्तरशतं जप्त्वा सिद्धिमाप्नोति निश्चितम् । ततः सिद्धमनुर्मंन्त्री सर्वकर्माणि साधयेत् ॥ १०८ ॥ वैशाखे मासि देवेशि तृतीयाक्षयसंज्ञिता । तस्यां चावाह्य विधिवत् कालिकां भुवनेश्वरीम् ॥ १०६ ॥ प्रस्तुतिं कारयेद्विद्वान् सर्वकामफलप्रदाम् । स्तुत्वा चावाह्य यत्नेन पूजयेत् परदेवताम् ॥ ११० ॥ चतुर्भुजां महादेवीं मुण्डमालाविभूषिताम् । अभयं वरदं खड्गं मुण्डमालाधरां पराम् ॥ १११ ।। श्रीदेव्युवाच भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग । कालिकाया महादेव्याः पूजनं विस्तरेण तु ॥ ११२ ॥ गुप्तबीजं गुप्तमन्त्रं मूलाधारबहिष्क्रियाम् । कथयस्व समासेन येन तुष्यामि शंकर ॥ ११३ ।। (श्रीभैरव उवाच)। मन्त्रन्यासं समाचर्य ऋष्यादिन्यासमाचरेत् । आदौ च आसनं दत्त्वा पूजयेत् परदेवताम् ॥ ११४ ॥ अस्यां तिथौ महादेवि कालिकां यः प्रपूजयेत् । तस्य सर्वार्थसिद्धिः स्यात् सर्वशत्रुक्षयो भवेत् ।। ११५ ।। C