सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः पटलः । ६६ राजानोऽन्ये महेशानि दासत्व प्राप्नुयुर्लघु । न पूजयति चेत्कालीं दम्भाद्वाप्यथ भैरवि ॥ ११६ ॥ गाड सर्वनाशं करोत्याशु क्रुद्धा भवति कालिका । तस्मात् सर्वप्रयत्नेन महाविभवविस्तरैः ॥ ११७ ॥ ॥ पूजयेत् परमेशानी सर्वकामसमृद्धिदाम् । महापूजां महादेवि यदि कुर्याद्वरानने ॥११८ ॥ तदैव महती सिद्धिर्भवत्येव न संशयः । चतुर्वर्गस्य कामी हि पूजयेत् कालिकां मुदा ॥ ११६ ।। प्राणप्रतिष्ठामन्त्रेण प्राणान् संस्थापयेद् बुधः । न्यासजालं महादेव्याः शरीरे विनिवेश्य वै ॥ १२० ॥ एवं च आत्मनो देहे न्यासजालं निवेशयेत् । भूतशुद्धिं ततः कुर्यात् प्राणायामं चरेत् त्रिधा ॥१२१ ॥ अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ १२२ ।। विघ्नानुत्सार्य देवेशि पद्म निर्माय यागवित् । देवीसंमुखतो देवि ततः पूजां समारभेत् ॥ १२३ ॥ रात्रौ गत तु प्रहरे प्रथमे सुरवन्दिते । आसनं प्रथमं दद्यात् स्वागतं तदनन्तरम् ॥ १२४ ॥ पाद्याघ्थ्याचमनीयं च मधुपर्क ततः परम् । तथा चाचमनीयं च स्नानीयं च ततः परम् ॥ १२५ ॥ वसनं रक्तकं दद्याद् रजताभरणं तथा । गन्धपुष्पे महादेवि धूपदीपो ततः परम् ॥ १२६ ॥ नैवेद्यं त्रिविधं दद्यात् सुस्वादु सुमनोहरम् । ताम्बूलं परमं हृद्यं दद्याद् दैव्यै मनोहरम् ॥ १२७ ॥ १ 'सुरगणार्चिते' इति पाठान्तरम् ।