सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६६ बृहन्नीलतन्त्रम् । बलिदानं विना देव्या हिंसां सर्वत्र वर्जयेत् । बलिदानाय या हिंसा न दोषाय प्रकीर्तिता ॥ ८१ ॥ बलिदानाय हिंस्याच्च सदा देवि महापशून् । इति वेदविदां देवि सिद्धान्तः सर्वसंमतः ॥ ८२ ॥ वेदसंमतसिद्धान्तः स ममापि च संमतः । पशुयागे महेशानि पशुं हन्यान्न संशयः ।। ८३ ।। सा हिंसा निन्दिता वेदैर्या च वैधेतरा भवेत् । वैधहिंसा च कर्तव्या संशयो नास्ति कश्चन ॥ ८४ ॥ इदानीं शृणु चार्वङ्गि रहस्यं परमाद्भुतम् । रहस्यं सर्वदेवीनां समयाचारलक्षणम् ॥ ८५ ॥ येन विना महेशानि न सिध्येन्मन्त्रमुत्तमम् । कल्पकोटिजपेनापि तस्य सिद्धिर्न जायते ।। ८६ ॥ मानवाः कुलशास्त्राणां कुलाचारानुचारिणाम् । सिद्धाः स्युर्नास्ति संदेहो वैष्णवाचारतत्पराः ॥ ८७ ॥ परनिन्दासहिष्णुः स्यादुपकाररतः सदा । पर्वते विजने वापि निर्जने शून्यमण्डले ॥ ८८ ।। चतुष्पथे कलामध्ये यदि दैवान्महेश्वरि । क्षणं ध्यात्वा मनुं जप्त्वा नत्वा गच्छेद्यथासुखम् ।। ८६ ॥ गृधं वीक्ष्य महाकालीं नमस्कुर्यादतन्द्रितः । क्षेमङ्करीं तथा वीक्ष्य जम्बुकीं यमदूतिकाम् ॥ १० ॥ कुररं श्येनभूकाकौ कृष्णमार्जारमेव च । कृशोदरि महाचण्डे मुक्तकेशि बलिप्रिये ॥ ११ ॥ कुलाचारप्रसन्नास्ये नमस्ते शंकरप्रिये । श्मशाने च शवं दृष्ट्वा प्रदक्षिणमनुव्रजन् ॥ १२ ॥